________________ जगस्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलकृतम् / 291 वाय्वाकाशाद्यपि च ग्रीहि-माषाम्लजम्ब्वादि भवति / तत्कृताहारोऽपि पृथिव्यादि व्रीह्यादि, पृथिव्याद्यपि तत्कृताहारः / तत्कृताहार-शरीरेन्द्रिय-बुद्ध्यादि / तत्कृतमनुष्य-तिर्यङ्-नारक-देवादि च तत्कृताहार-व्रीहि-पृथिव्यादि च तत्कृताहार-शरीरेन्द्रिय-बुद्धि-मनुष्यादि सर्व परस्परतः सर्वात्मकं भवति / तत्प्रयुक्तत्वात् , तथाऽभिव्यक्तेस्तदादिकरत्वादित्यादि] हेतुभिः कियद् वोदाह्रियते ? न्यायस्यास्य व्यापित्वात् सर्व तदुदाहरणमेव / दिगमात्रप्रदर्शनार्थ चाह- इतश्चेतश्चेति / यदि व्रीहितो व्रीहेरादिकरत्वमथ पृथिव्यादितः पृथिव्यादेरादिकरत्वमिति तान्येवोदाहरणानि / एवं तत्कृताहारशरीरेन्द्रियादिष्वपि द्रष्टव्यम् / सर्वस्यैकैकस्य सर्वात्मकत्वात् / तत आहतदात्मकत्वात् तदव्यतिरिक्तत्वात् तत् तदेवेति तस्य तस्य प्रकारस्य हेतुत्वं दृष्टान्तत्वं चेति / ___ एवं दृष्टान्तभूतं प्रस्तुतन्यायप्रसाधितं सर्वसर्वात्मकवादं प्रथयित्वा दार्टान्तिकं पुरुष-कर्मवादमीश्वरकारणनिराकरणायाह पुरुषकर्मखप्येवमेवेत्यादि / पुरुषः कर्ता कर्मयोग्यानां पुद्गलान कर्मत्वेनादिकरः / [के] कर्मयोग्याः पुद्गलाः ? उच्यते- परमाणुवर्गणा अवग्रहणवर्गणा अग्रहणवर्गणा द्विप्रदेशवर्गणा एवं दशप्रदेशादिसङ्खयेयप्रदेशवर्गणाः / समानजातीयानामेकशो बुद्ध्याऽवस्थापितानां पिण्डो वर्गणा / कुचिकर्णकाभीर-सवर्ण-गोपिण्डवत् / अनन्तप्रदेशवर्गणा अपि काश्चिद् ग्रहणयोग्याः, काश्चिदग्रहणयोग्याः / ग्रहणयोग्यायोग्यत्वं चातिस्थूल-सूक्ष्मायोग्यत्वात् स्खेदोरेव(?) परमाणुशर्कराणां योग्यत्वाच्च मध्यमपरिमाणानाम् / तत्र या ग्रहणयोग्याः पुद्गलतो वर्गणाः तत्प्रमाणेन सिद्धानामनन्ततमभागः। अभव्यसिद्धीनामनन्तगुणाः / एष तावदौदारिकयोग्यस्य ज[घन्यस्य विधिः। तदुपर्येकपरमाणौ प्रक्षिप्त द्वितीयाऽप्यौदारिकयोग्या। एवमेकैकवृद्ध्या ता]न्यनन्तानन्तानि स्थानान्यौदारिककार[ण त्वेन ग्रहणयोग्यानि / जघन्यादुत्कर्षस्थानमसङ्ख्येयगुणम् / यस्मात् परम्परोपनिधया प्रथमस्थानादारभ्यानन्तस्थानेषु तेषु द्विगुणता भवति / तस्मादसङ्ख्यगुणं सङ्ख्येयगुणं वा / अनन्तरोपनिधया तु रूपादि(धि)कमेव तस्मिन्नुत्कृष्टौदारिकयोग्यद्रव्ये रूपे प्रक्षिप्ते जघन्यं वैक्रियशरीरस्याग्रहणयोग्यम् / एवं रूपाधिकवृद्ध्या तान्यप्यनन्तानन्तानि स्थानानि पूर्ववत् / जघन्यादुत्कृष्टमसङ्ख्येयगुणम् / को गुणकारः? श्रेण्यसङ्ख्यसङ्ख्यतमभागः। तेषामग्रहणानामुपरि वैक्रियस्य जघन्यं ग्रहणयोग्यम् / तान्यपि स्थानानि पूर्ववदनन्ता[नन्ता]नि / पुनराहारकाग्रहणानि तथा तदुपरि तद्रहणयोग्यानि / तथैवौदारिकशरीरयोग्येभ्यो वैक्रियशरीरयोग्यान्यसङ्ख्येयगुणानि, १-माने-प।