________________ 290 नयचक्रम् / [विधिनियमारः न कर्मेत्येतद्भावनार्थ सर्गस्यादौ खशक्तितः स एव साक्षाद् व्याप्रियत इत्युच्यते / कसात् ? उपसर्जनेन विनाऽपि प्रधानस्य प्रवृत्तिसद्भावात् / चित्राचार्यस्येव शिष्येण विनाऽपीति / यथा शिष्यमप्रधानं ग्राहयित्वा चित्रकर्म ग्राहयित्वा वा प्रणेयं तेन विना सह वा चित्रकर्मणि चित्रकराचार्यः प्रवर्तितः / एवं स्वप्राधान्यात् सन्निध्यसन्निध्योरपि शिष्यस्य प्रवर्तकत्वात् / एवमीश्वरोऽप्यदृष्टादिसनिध्यसन्निध्योः प्रवर्तते प्रधानत्वादिति / भाव्यत्वादिति / भाव्यत्वादुद्ग्राहितद्वैतानुरूपभावनोपसंहारात्मकत्वात् न कश्चिद् दोष इत्येतच न, आदिकरस्य कर्तृत्वात्। आदि करोत्यादिकरः। स एव च कर्ता, तस्यैव कर्तृत्वात् / कोऽसावादिरिति चेदुच्यतेअव्यज्यमानप्रकारव्यक्तिरादिः / स्व(स)त एवार्थस्याव्यक्तस्य केनचित् प्रकारेण व्यक्तिरादिः। कुतः? आदानादिति / आदानमादिरित्यक्षरार्थनिरुक्तिमाह- हेतु दृष्टान्तं चादित्योदयादित्ववदिति / यथाऽऽदित्यस्योदय-मध्याह्नास्तमयत्वप्रकारेण दिवसविभागानां विद्यमानानां व्यक्तिरेवं तत्र प्रयोजनपरमार्थत्वाद् भवितृत्वस्य, यः प्रयोजयति परमार्थतः स कर्ता भविता / भू-कृञोः सर्वधात्वर्थत्वात् न प्रयोज्य इत्यस्मात् कारणाद् य आदिकरः, स कर्ता / यश्च कर्ता स भवति भू-कृजोः सार्वधात्वर्थव्यापित्वात् / एतदुक्तं भवति / यतः प्रकारान्तरेणाभिव्यञ्जयन्नवान्तरस्यादिकरत्वाद् भवति वस्तु, तत एकैकस्य सर्वत्वम् , न सर्वस्यैकत्वम् / परस्परापेक्षाभिव्यञ्जनेनादिकरत्वादिति / अस्मिंश्चाथै व्यापकं दृष्टान्तमाह स्फुटीकरणार्थम्__ आदिकरत्वं च यथा ब्रीहौ सम्भाव्यत इति / तद्व्याख्या- अत्रीहेमंदादे/हित्वेनादिकरत्वादिति मृत्-सलिल-वाताकाशानामवीहीणां व्रीहिप्रकारेणाभिव्यक्ति कुर्वन् त्रीहिरादिकरः / एतमर्थ हेतुत्वेन व्यापारयति / सिद्धं कृत्वा पञ्चम्या बीहित्वेनादि करत्वादिति / तथा प्रागित्यादि / एवं च कृत्वा व्रीहित्वात् प्रागपि पृथिव्यप्-वाय्वाकाशानामप्यादिकरत्वम् / पश्चादपि तेन प्रकारेण तथा व्रीहिवदेव / तदादित्वाद् व्रीहेस्ते आदिः पृथिव्यादयो बीहेः प्राक् पश्चाचेति तेषामादिकरत्वं, तेन प्रकारेणाभिव्यक्तेः / किं चान्यत्- तत्प्रयुक्तत्वाद् व्रीहेः, ते ह्यस्य प्रयोक्तारः / यो यस्य प्रयोक्ता, स तस्य कर्ता, यथाऽऽदित्योदयादित्वमित्युक्त आह- तत्प्रयुक्तो व्रीहिः / कस्मात् पृथिव्येव न भूतो व्रीहिः?, पृथिव्येवोदकमेव, वायुरेव वा, आकाशमेव वा तत्प्रयुक्तवादादिकरत्वादादित्योदयादित्ववदिति / अत्रोच्यते- को वा ब्रवीति पृथिवी न भूत उदकादिश्च व्रीहिरिति, तत्प्रयुक्तत्वाद् , ब्रीह्यादि वा पृथिव्यादि न भूतमिति / तत्प्रयुक्तत्वाद् व्रीहिरपि पृथिव्यप-वाय्वाकाशादि भवति / पृथिव्युदक 1 चिनाशीति प / 2 प्राणे° प /