________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 289 स्यातामनियतविषयत्वादन्ते च स्यातां नियतविषयत्वाद् वा मध्यवत् , मध्ये वा न स्थातामन्तवदिति / इदमेव दोषजालं प्राप्तम् / किं कारणम् ? धारणाद् धानाद् वा धर्म इति निरुक्तेः / यदि मर्यादां धारयति प्राणिनां, सुखे चैतान् धत्ते; ततो धर्म इत्येतस्यार्थस्याभावे कथमसौ धर्म उच्यते?, तद्विपर्ययो वा कथमधर्मः ? इति तद्विपरीतार्थाभावे / तस्मात् सुखस्थानादिधारणाद् धर्मः सुखकारणं ह्यव्यभिचारि तदिष्यते / यथाभावे यस्साभावो, यस्य च भावे यस्य ध्रुवो भावस्तत् कारणमितरत् कार्यमिति कारणस्य धर्मस्य, कार्यस्य च सुखस्याव्यभिचारात् / एवमधर्मेऽपि व्याख्या विपरीतार्था कार्या / तस्मादयुक्तं संज्ञाकरणमात्रेण मर्यादेति / ___ अथ त्वित्यादि / स्यान्मतम्- तस्यैवेश्वरस्य रुचेरेवेच्छातः सुखं दुःखं वा न धारण-धानप्रवृत्त्यात्मकत्वाद् धर्मस्या(मा)धर्माभ्यां तस्य वा क्य(क)स्यव(चि)दिति / अत्रोच्यते- धर्माधर्ममर्यादावचनमनर्थकम् , यदुक्तं 'प्रतिबुद्धानां प्राणिनां धर्माधर्ममर्यादाम(मु)पदिश्योत्तरकालं स्वमर्यादाऽनुष्ठानानुरूप्येण' इत्यादि, तत् सर्वमनर्थक संवृत्तम् / तत्साधनाथं हेतुमाह सदृष्टान्तम्-सदैवेत्यादि, यावद् यस्य कस्यचित् सिद्धेराद्यन्तवदिति / सर्गस्यादौ मध्येऽवसाने च सर्वकालमीश्वरशक्तिमात्रवशादेवान्यस्य कारणस्याभावेऽपि यथा तथा येन वा तेन प्रकारेण सुखस्य दुःखस्य वेष्टानिष्टशरीरादेरनियमेन यस्य कस्यचिन्मारकस्याहिंसकस्य वा सिद्धेर्द्धर्माधर्माकारणत्वं तैदकारणत्वादाद्यन्तवत् प्रथमावसानकालयोरिव तन्मर्यादावचनमनर्थकमिति / एवं तावदद्वैतत्यागः / न केवलमद्वैतत्याग एव, किं तर्हि ? तथा द्वैतमपि त्यक्तम् / कुतः? साक्षाद् व्यापारवचनादित्यादि, यावत् किमाधिकारिकैरिति / साक्षाद् व्यापारो वैश्वर्यं तद् व्याचष्टे तस्मात् तद्व्यावतेस्तस्य सर्वैः प्रकारैः सर्वकालं सर्वदेशे वा(चा)व्याहता वृत्तिरस्य / अतस्तदव्याहतघृत्तित्वात् किं धर्मादिना ? / आदिग्रहणादधर्मेण किम् ? स्थान-विग्रहेन्द्रिय-विषयैर्वा प्राणिनां सुख-दुःखाश्रयैः? प्राणिभिवा किं क्रियते? न किञ्चिदित्यभिप्रायः / किमाधिकारिकैब्रह्म-मनु-विष्ण्वादिभिर्धर्माधर्ममर्यादापालनार्थ विनियुज्यमानैवेति ? / अथ मन्यसे तैर्विना शक्तिया॑हन्यते तस्येश्वरस्य ततस्तबस्स व्याहतशक्तित्वात् त्वेवमनीश्वरता कार्यान्तराशक्तेः श्रमाद् वा, इतरवदिति पृथग्जनवदित्यर्थः। ननु प्रधानोपसर्जनेत्यादि, यावत् तथाऽदृष्टाद्यभावेऽपीश्वरस्येति / आह- द्वैतमेवोद्ग्राहितंभावितं प्रत्युपसंहृतं च / नान्यथोद्ग्राहभावनोपसंहाराः। कथं प्रधान उपसर्जनं च द्वैतं प्रतिज्ञातम् / तस्यैवार्थस्य संवादेनेश्वरः प्रधानम्, 1 सर्व-प। 2 शदिवा-प। 3 तदाका-प। . न. च०३७