________________ 288 नयचक्रम् / [विधिनियमारः अत्रोत्तरमाहाचार्यः- इदमन्यथैवोद्ग्राह्यत इत्यादि / अन्यथा तावत् प्रतिज्ञायते ईश्वर-कर्मणोः प्रधानोपसर्जनभावाभ्युपगमाद् द्वैतम् / भाव्यते तु साध्यहेतु, व्याख्यानं क्रियते अन्यथा। कथमिति चेत् ? स एव स्वशक्तित एवान्यनिरपेक्ष इत्यवधारणादद्वैतार्थभावनाददृष्टादीनां तच्छक्तीनां च स्वतो व्यतिरिक्तानां निरासेन साक्षादि(देवाप्रयोजनेन कस्यचित् कश्चिदप्यन्यमप्रयोजयन् स्यात् स्वशक्तित एवेत्यवधारयता चाद्वैतमेव भाव्यते भवता / पुनरप्याह-एवं नियमनायेत्यद्वैतनियमनायेयमपि भावना / कतमा सा भावनेति चेत् ? तदनुध्यानात् पुण्यमुत्पाद्येत्येषाऽप्यद्वैतभावे(व)नैवेति / एवं तावत् प्रतिज्ञातं द्वैतमद्वैतं भावितमिति उक्तं प्रत्युपसंहियते तु द्वैताद्वैते द्वे अपि त्यत्त्वेति, प्रतिज्ञातभाविते द्वैताद्वैते अपि त्यक्त्वा / तत्राद्वैतस्य त्यागस्तावद् धर्माधर्ममर्यादास्थापनवचनेन कृत इति वाक्यशेषः / का मर्यादा ? उच्यते / मर्यादा नामानतिक्रमस्थानमिति मर्यादालक्षणमाह, विषयतस्तु सुख-दुःख-प्रवृत्तिसीमा- इयति विपये सुखमियति दुःखमिति धर्माधर्मयोः सीमनि स्वके स्वके व्यवस्थापनम् / धर्मस्य सुखप्रवृत्तिच्छेदेनाधर्मस्य दुःखप्रवृत्तिच्छेदेन 'अयमस्मादन्योऽयमितरमादन्यः' इति सीमा-विभागः / ततः किमिति चेत् ? / ततश्च सगादौ स्थानादीत्यादीति / स्थान-विग्रहेन्द्रिय-विषयाः स्थानादयः, तदात्मके सुख-दुःखे अपि न स्याताम् / कस्मात्? अनियतविषयत्वात्। अनियतौ हि विषयौ तदा सुख-दुःखयोः अविद्यमानस्थानादित्वादविद्यमानधर्माधर्मत्वाच्च / दृष्टान्तः प्रलयवत / यथा प्रलये [धर्मा]धर्माभावादेवानियतविषये सुख-दुःखे ततश्चासती, तद्वत् सगोदावपि स्यातामिति / किं चान्यत्- अन्ते च स्यातां सुख-दुःखे इति वर्तते / कुतः ? अनियतविषयत्वात् / विषयानियमोऽपि यदू(च रू)पादिपञ्चकत्वाद्यभावाद् उपसंहरणकाले मध्यकालवत् / अथवा नियतविषयत्वात् व्यवस्थापितधमोधर्ममयोदत्वात् सुखदुःखे तदा नियतविषये, तस्मात् तदाऽपि स्यातां मध्यमकालवत् सृष्टयुत्तरकालवदित्यर्थः / तद्विपर्ययेण वा साधनम्-'मध्ये वा न स्यातां सुख-दुःखे नियतविषयत्वाद्' इति वर्तते अन्तवदिति / अथोच्येतेत्यादि, यावद् धर्मोऽय[मधर्मोऽय]मिति स्यान्मतम्- अत एवेश्वरस्यैव कारणत्वात् न सुखादिप्रवर्तनात्मिका धर्माधर्ममर्यादा तत्समर्थनासमर्थत्यर्थः / ईश्वरस्यैव सुख-दुःखयोः प्रवर्तकत्वात् / यदि सा न प्रवर्तयति सुख-दुःखे धर्माधर्ममर्यादा किमर्थमसौ तां व्यवस्थापयतीति चेदुच्यते- स्वरूपसंज्ञाव्यवस्थापनमसौ तयोर्लोकव्यवहारार्थं करोतीत्यत आह- किं तर्हि अयं धर्मोऽयमधर्म इत्येतावदुपदेशेन ? इति / अत्राचार्य उत्तरमाह- एतदपि तुल्यं पूर्वेण, असत्चात् सर्गादावन्तवन्न