________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 287 भाव्यते ? इति चेत्, उच्यते / यदा तदेवं व्यामुयैवेत्यादि वनाग्रन्थः / यावदुपभोगविभाजनानुग्रहक्रिययाऽतिगरीयस्या किमिति वर्तते ? तस्मिन् हि काले प्राणिनामत्व(न्ध)लकवत् प्रवृत्तेरीश्वरस्यैव "तेषां शरीराद्युत्पादयामि, धर्माधर्ममर्यादां प्रणयामि, तत्र प्रवर्तयामि, तत्फलैरनुबध्नामि, तान् प्राणिनः फलानुरूपमिष्टमनिष्टं चोपभोग विभज्यानुगृह्णामि" इत्येवमादिकयाऽनुग्रहक्रियया क्लिश्यमानस्यानेकपुरुष-स्त्री-नपुंसक-जनसाधारणस्येव भृतकस्यातिक्लेशः / इति हेत्वर्थे / तस्मादतिक्लेशत्वादत्यन्तपरवशत्वमेवैश्वय शीतलिकापर्यायशब्दाभिधेयलूतावदुच्यत इति / किं चान्यत्- अनुग्रहोऽपि विपर्ययेणोच्यते अननुग्रह एव सन्ननुग्रह इति / किं कारणम् ? दुःखहेतु-दुःखात्मकाभ्यां दुःखहेतुत्वाद् इष्टोपभोगस्य हिंसाऽऽद्यात्मनोऽर्जन-रक्षण-क्षय-सङ्गदोषे दुःखात्मकत्वाच, अनिष्टोपभोगस्य दुःखात्म[क]त्वाच्चाननुग्रह एवासौ / दृष्टान्तः विषकृतभोजनक्लेशनवत् / यथा कश्चित् क्रूरमूर्खनृपतिः स्वरशान् भृत्यान् विषमिश्रमाहारं भोजयन् 'अनु. गृहामि वः' इति ब्रूयात् , तथा त्वदभिमतेश्वरोऽपीति / यच्चोक्तम्- "दुःखमपि तणमोक्षणवदनुग्रह एव' इत्यतदप्ययुक्तम् / संसारमोचक-व्याध-चाण्डालादिमारितसत्त्वानुग्रहप्रसङ्गात् / सत्त्वनिकायकलिकलुषकृतात्मोपनिपातनेनाशेऽबोधे सत्त्वानुग्रहवदज्ञानप्रसङ्गाच / तत्सायोज्यगमनेऽप्येवम् / ईश्वरेण किल सायोज्यं मोक्षः, स्वात्मना सायोज्यं गमयन्नप्यसौ प्राणिगणमतिक्लेशभाजनमेव करोति कृ(सृ)ष्टसंसारक्लिष्टेश्वरत्वस्योक्तलक्षणस्यामोक्षशब्दाभिधेयत्वात् ; अलमैश्वर्येण, मोक्षेण च तादृशा सदा सर्वपुरुषव्यापारोद्वहनायासात्मना / तस्माद् वरमात्माधीनं यथेष्टचेष्टं दौर्गत्यमपीति" एवं चेत् यत् त्वाशक्यते त्वया आद्यन्तवदित्यादिना ग्रन्थेन 'विनेश्वरेण किलते दोषा इतीष्टास्ते सहापीश्वरेण तथैवैव भवन्तीति / तदर्शयन्नाह साध्वेवेत्यादि गतार्थम् / हेतु-हेतुमद्भावप्रतिपादनक्रमेण यावत् तत्प्रसक्तौ क्रियाविलोपः / कुतः ? ईश्वरप्राधान्यादुक्तानन्तरदोषाचेति धर्माधर्मक्रियाः प्राणिनां न स्युः, फलाभावादीश्वरवशादेवाद्यन्त-मध्येषु फलसङ्करात् / ततश्च सर्वप्राणिनां निर्मोक्षः, निःशेषमोक्षस्तद्वशादेव सोनिर्मोक्षो वा प्रो(प्रस)क्त इति / यत् तु सर्वशास्त्रेत्यादि / एतद्दोषपरिहारार्थ कर्माद्युपसर्जनतयेश्वरप्राधान्यकारणे प्रोक्ते / कथमिति ? तद् भावयत्युत्तरेण ग्रन्थेन- आदौ स एव खशक्तित इत्यादिना, यावच्छरीरादिवत् [कुशला] कुशलाशयकलङ्कशुद्धं स्था(स्वा)पयतीति गतार्थः पूर्वपक्षः। धर्माधर्ममर्यादायाः परिपालकान् ब्रहमादीनाधिकारिकान् विनियुङ्क्ते इति शेषः।