Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 297 मृतत्वाय कल्पेतेति दृष्टेष्टविरोधदोषप्रसङ्गः / तथा कार्ये(ये)न्द्रियनिर्वर्तनेऽप्यनिष्टशरीरेन्द्रियादि न स्यात् काणं कुण्टं बधिरादि, सम्पन्नेन्द्रिय-जाति-संस्थान-संहननादियुक्त एव स्यात् / पुरुषकारकार्यनिर्वर्तनेव(च) धर्माद्यनुष्ठान-विषयोपभोगादाविष्टस्यैव करणं खातव्यात् स्यात् / तस्मात् तत् सर्वमेव तत्कर्मण एव हेतो त्मनः / कर्मण इति पञ्चम्या हेत्वर्थे विहितत्वात् / तदतिरेकेण क आत्मनि प्रतिपद्येत ? / तस्मादेवंविधात् क आत्मन्येतदनुपपद्यमानं कर्मव्यतिरेकेणाभ्युपगच्छेत् ? नाभ्युपगच्छत्येव विद्वानित्यभिप्रायः / तस्मादहेतुः पुरुषस्तत्कारश्च / स्यान्मतम्अकारणमपि कर्मसहायापेक्षत्वात्। पुरुषकारमकारणमपि कर्मसहायमपेक्षते, कवलास्यप्रक्षेपादिवत् / यथोक्तम् "आलस्याद् यो निरुत्साहः, स किश्चिन्नाश्नुते फलम् / स्तनक्षीरादिपानं च, पौरुषान विशिष्यते // " अतो भारोत्पाटवत् / यथा भारं समुद्वहन् पुरुषः सहायमुत्क्षेप्तारं निक्षेपकं चान्तरेण स्वयमेव न शक्नोति वोढुमिति कारण[म]कारणं च दृष्टः / तथा 'कर्म पुरुषकारमन्तरेणेति [कारणम]कारणं च' इत्येतदपि च न मन्तव्य[म]कारणमपीत्यादिना तमेव पूर्वपक्षं व्याचष्टे / भारोत्पाटापेक्षभारोद्वाहवदत्र किं सहायं कर्मणोऽपेक्ष्यमिति चेत, उच्यतेफलोपहारायेत्यादि / फलमुपहरिष्यतः कर्मणस्तत्स्वामिनः कर्तुर्नयोद्योगावान्तरावपेक्षौ बाह्या स्वामात्यादिप्रकृतिः / किं पुनः कारणमेवं न मन्तव्यम् ? उच्यते-यतस्तान्यपि हि स्वामिधर्म[]धर्मरज्जूयति निवड्यामी(द्धानी)त्यादि, यावत् तन्तुपटवत् सहेतुकदृष्टान्तेन पटवाक्येनामात्यादीनां धर्माधर्मकार्यत्वमापाद्य कर्मकारणावधारणात् पुरुषकारं निराकरोति, तदायत्तत्वात् तद्भोग्यत्वादि[त्यादिना हेतुसौलभ्यं च दर्शयति-तन्तुपटवदिति तन्त्वायत्तपटवत् / पटत्वेन तन्तूनामेव भोग्यत्ववत् / यदि तानीत्यादि / एवमनभ्युपगमे सर्वाशेषप्रसङ्ग इत्यनिष्टापादनम्। योऽपीत्यादि / यदपि चोक्तं खामिनयोद्योगावपेक्ष्याविति / स्वामिपुरुषकारः। सोऽप्यधर्मफलत्वात् कर्मैव, न पुरुषकारो नाम कर्मातिरिक्तोऽस्तीत्यवधारणार्थ प्राक् प्रतिज्ञातं समर्थयति-क्लेशत्वात् / क्लेशो हि चिन्ता-व्यायामरूपो मनः-शरीरायासात्मकत्वात् , ज्वरवत् / अथेत्यादि / अथैनं पुरुषकारसंक्लेश[म]धर्मफलं नेच्छसि, प्रज्ञोत्साहयुक्तस्य प्रशस्तत्वेनेष्टत्वाल्लोके ततो न तर्हि दुःखमधर्मफलमिति प्राप्त शिरोरोगादिक्लेशत्वानयोद्योग-पुरुषकारवत् / यथोक्तम् न० च० 38
Loading... Page Navigation 1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384