Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ नयचक्रम् / [विधिनियमारः "कटुकः कटुक[ः] पाके, वीर्योष्णश्चित्रको मतः। तद्वद् दन्ती प्रभावात् तु, विरेचयति सा नरम् // " 'नागरातिविषा मुस्ता, क्वाथः स्यादामपाचनः // ' [चरकसंहिता ? ] इत्यादीनि पुरुष- तक्रिययोरभावे कर्मकारणैकान्ते निराकृतानि स्युरित्थं न चेष्यते तन्निराकरणं कस्यचित् प्रमाणान्तरसंवादिनः शास्त्रस्य प्रामाण्यदर्शनात् / त्वदुपदेशादिक्रियाणां च दृष्टार्थानां निराकरणमेवमिति वर्तते / कर्मकारणकान्ते पुनः पुरुषस्य स्वतन्त्रस्य, तक्रियायाश्चाभावे परप्रतिपादनाथं तच्छक्तियुक्तशब्दोच्चारणक्रिया न स्यात् , कर्मत एव प्रवृत्तेः / आदिग्रहणादोदनस्य मुखसंयोजनादिक्रियाश्च न स्युः, कर्मप्रवृत्तिमात्रत्वात् / तत्प्रतिपत्त्यपत्त्योः त्वदुपदेशार्थप्रतिपत्तिः कर्मत एव परस्य स प्रतिपद्य[ते] विनाऽप्युपदेशेन, न प्रतिपद्यते वा सत्यप्युपदेशे / कर्मप्रवृत्तिमात्रत्वादित्यादि यावत् कर्मण एवेति चेत् स्यान्मतम् , यदुच्यते शास्त्रनिराकरणमेवं त्वदुपदेशादिनिराकरणं च कर्मणोऽस्वतत्रत्वे सत्यलब्धात्मवृत्तित्वादाभूतदेवदत्तवदभवनं निर्विवादकृतकत्वात् कर्तुरेव भावस्तच्छक्तेः, व्रीहेरप्यावर्तका(कत्वात् स्वरूपभेदात् पुरुष एव भवतीत्यादि सर्व नोपपद्यते, कर्मत एव भवतीत्युपपद्यते, कर्मप्रवृत्तिमात्रत्वात् / तथा शास्त्रार्थस्यास्मदुपदेशादिक्रियाणां च प्रतिपत्त्यप्रतिपत्त्योः कर्मप्रवृत्तिमात्रत्वात् / प्राज्ञपुरुषप्रतिपत्तिवत् , बलीवर्दाद्यप्रतिपत्तिवञ्च / तस्मात् सर्वाण्येतानि कर्मण एव हेतोभवन्ति, पूर्वोक्तन्यायवचिन्ता-व्यायामादिशारीर-मानसक्लेशफलत्वात् तस्येति चेदाशङ्कायाम् , एवं चेन्मन्यसे, ततस्त्वमिदमसि तावत् प्रष्टव्यः। अथ तदादिकर्म कुतः ? इति / मम तावदभिप्रायः कृतकत्वात् कर्मणः पुरुषादेव तदिति / तन्नेच्छता त्वया वक्तव्यम्- कुतस्तदादिकर्म ? यत एतत् सर्व प्रतिपत्त्यप्रतिपत्तिक्लेशादीति त्वदभिप्रायाकर्षणार्थः प्रश्नः। किं तदपि कर्मण एवोत पुरुषात् ? इति ब्रूयास्त्वम् 'ओम् , पुरुषादेवेति / एवं नामास्तु, को दोषः ? गत्यन्तराभावात् कर्मत एवेत्यभिप्रायः स्यादिति / अत्र ब्रूमः- न व्रीहिवैधयेणाकर्तृकत्वात् / व्रीहेरस्या(प्या)वर्तकत्वात् कर्तृत्वमुपयाति / तमो वाऽतो व्रीहिरकृतकोऽकर्तृकत्वात् / ततश्चाक्रियमाणत्वान्नोपपद्यते कर्मणः कर्मत्वम् , तस्यादिकर्मणः / किमिव ? आत्मादिवत् / यथाऽऽत्माऽऽकाश-काल-दिगादीनि न केनचित् क्रियन्त इत्यकर्माणि, तथाऽऽदिकर्मापि स्यात् , नोत्क्षेपणवदिति वैधर्म्यदर्शनम् / यथोत्क्षेपणं कर्म तद्वयतिरिक्तेनोत्क्षेत्रा विना न भवति, तथेदमिति / एवं पुरुषकारवादिना कर्मवादी दूषितः, कर्मवादिना च प्राक् पुरुपकारवादी। तस्माद् यदुक्तमेवं च कृत्वा तदपि सर्वमसम्बद्धं यत् कर्मकारणैकान्तिन आहुः, यच्च 1 क्रमः प।
Loading... Page Navigation 1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384