________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलकृतम् / 303 इंदियत्ताए, मणत्ताए, आणा(ण)-पाणत्ताए // " - [भगवतीसूत्रे श. 12, उ. 7] इत्याद्यर्थे(द्यार्षे) ऐक्यापत्तौ ज्ञापकं सर्वज्ञोक्तत्वात् / ___ अत्रानुमानम्- तदेव तदिति प्रतिज्ञा / मातृत्वादिभावेन यद् भवति, शरीरादिभावेन च(वा) तदेकैकं सर्वरूपमित्यर्थः / तत्परमार्थत्वात् तद्वत् / एतदुक्तं भवतितत्तत्स्वरूपत्वे (पापत्ते)भवनपरमार्थत्वात् तत्तत्स्वरूपवत् / एवमितरमपि पक्षीकृत्य साध्यम् / यत्स्वरूपमिदं भवति कर्पूरं शरीरमना(ना)दि वा तत्तदेवेत्यर्थः / यच्च यदेव न भवति, तत् परमार्थ[तो न भवति], यथा खपुष्पं, खरविषाणं वा / भवन्मत्याऽन्यत् तत् तदन्यस्वरूपापत्तेः स्यात् / आह- 'यस्यान्तरङ्गस्य तत्त्वं स्याद् बहिरङ्गस्य चान्यत्वम्' इति / तदेव ह्यन्यत्वा[भि]मतमसाभिस्तस्यैव [तद् ] रूपमिति साध्यते, तस्मानास्त्यन्यथात्वं न चासिद्धं तत्परमार्थतत्वमिति / अभ्युपेत्याप्यन्यथात्वेऽपि तदनतिरेकात्मकत्वात् तदेव तदिति वर्तते / तस्मात् तस्य वाऽनतिरेकः, स आत्माऽस्येति तदनतिरेकात्मकं यद् य[दनतिरेकात्मकमन्यथात्वेऽपि तदेव तद् दृश्यते। किमिव ? तन्तु- यज्ञोपवीतवत्। तन्त्वनतिरेकात्मकत्वाद् यज्ञोपवीतस्य चलितस्यान्यथात्वेऽपि तन्त्वात्मकत्वमेव / तथा सुखादिषु भावनीयम् / तदनतिरेकात्मकत्वं च भावितार्थमेव 'ते' चेव ते पुग्गला सुब्भिगंधत्ताए' इत्यादिना / __ यथा चात्रेत्यादि / एवं च तदेव तदिति सर्व सर्वस्य बाह्यस्य परिणम्यस्य परिणमयितुश्च तत्त्वम् / योऽधिगुणस्य ताद्गुण्यं प्रतिपद्यते स परिणामी, योऽधिगुणो न्यूनगुणत्वमापादयति, स परिणामक इत्युच्यते व्यवहारतः, निश्चयतश्च (तस्तु) परिणामि-परिणामकावाविर्भाव-तिरोभावमात्रभेदौ स्वत एवेत्यस्य नयस्य दर्शनम् / परिणामश्च द्र[व्य]मात्रम् / 'द्रव्यं च भव्ये (पा०) यद् यद् भवति स परमार्थोऽस्येति तदप्येवं(तथेदं) भावितं क्षीरादेर्यावच्च घटादेस्तावद् बोद्धव्यम् / तथाऽधिकृतस्याध्यात्मिकस्य कर्म-कर्मिसंज्ञस्य शरीर-शरीरिसंज्ञस्य वा भावनार्थमुपनयति-तथाऽऽत्म-कर्मणोरपीति / तद् व्याचष्टे- आत्मा परिणामयतीत्यादिना, यावद् अनादित्वमेकत्वमिति / परिणम्य परिणमकयोरनियतदेश-काल-भावादिरूपतां दर्शयति / तथाभवनसामर्थ्याद् गति-जात्यादिना पुद्गलानिति उपयोगलक्षण आत्मा, गति-जाति-शरीराङ्गोपाङ्गाद्यनुभवनोपयोगात्मतया तान् पुद्गलान् परिणमयतीति आत्मनः परिणमकत्वम् , तेषां परिणम्यत्वम् / पुद्गलाश्चात्मानं मिथ्यादर्शनादित्वेनेति मिथ्यादर्शनाविरति-प्रमाद-कषाय-योग-सुख-दुःखोदयं(य-)क्षयोपशमादिभावेन परिणमयन्ति, तद्भावेनात्मा परिणम्यते / स च मिथ्यादर्शनोदयादिभावो भवभ्रान्तिहेतुः, तद्वशस्य संसरणात् / एतस्य कर्म-कर्मिद्वयस्थान्योन्यपरिणा 1 त एव ते पुद्गलाः सुरभिगन्धतया /