________________ 304 नयचक्रम्। [विधिनियमारः मकत्वादनादित्वमेकत्वमेव / एकत्वशब्देन पर्यायभूतेन तत्वं व्याचष्टे / संसारस्य कर्म-कर्मिसम्बन्धजत्वात् , तस्य च सम्बन्धस्यानादित्वात् / यथोक्तम्- "वि भंते ! अंडए, पच्छा कुकडी ?" इत्यादिप्रश्न-व्याकरणम्- "रोहा! पुब्धि एते पच्छा वि एते, दो वि एते सासता भावा, अणाणुपुव्वी एसा रोहा!" इत्यादि (भगवती श. 1, उ. 6, सू. 53, पृ. 80) मिथ्यादर्शनग्रहणं सर्वकर्मबन्धाधारभूतत्वाच्छेषस्यापि सर्वस्य सूचनम् / आह- यदुक्तं त्वया कपरोदकाद्यचेतनानां परिणाम्य-परिणामकभावादेकत्वं चेतनाचेतनयोश्च जीव-कर्मणोरिति तद् युक्तम् ,किन्तु रूपाद्युपयोगीभवदात्मा भवत्यात्माऽपि रूपादीभवति, तत्परि[णा]मादित्येतन्नोपपद्यते स्वभावाविनाशादिति / ___ अत्रोच्यते- यदपि चेत्यादि, यावन्मत्यादिवदिति / यदपि च बहिर्भिन्नं विषयजातमुपयोगनिमित्तभूत्तं रूपादि तदस्या(प्या)त्मन एव तत्त्वं रूपादितत्त्वमात्मानं च वक्ष्यामः / कुतो रूपाद्यप्यात्मन एव तत्त्वम् ? इति चेत् , उच्यते- उपयोगात्मकत्वात् / मत्यादि-चक्षुर्दर्शनादिभेदप्रभेद उपयोग आत्माऽस्य रूपादेवि[षय] कल्पस्य सोऽयं तदात्मकः / कथं रूपादेविषयस्योपयोगात्मकत्वमिति चेत् , उच्यते- तदव्यतिरेकलभ्यरूपत्वात् / रूपं रसो गन्ध इत्यादि विषयस्वरूपाकारेणोपयोगेनाव्यतिरिक्त एकीभूत एवोपलभ्यते रूपादिविषयो, नान्यथा विषयस्वरूपानवधारणात् , तस्मात् , तदनतिरेकलभ्यरूपत्वात् , रूपादिविषय उपयोगात्मकः / यद् यदुपयोगात्मकं तत् तदात्म[न] एव तत्त्वम् / यथा मत्यादि-चक्षुर्दशेनादिभेद उपयोग इति / ___ स्यान्मतम्- रूपादीनां देशभेदेन युगपदवस्थायिनां रूपं रसो गन्ध इत्यादयः परस्परतो देशभिन्ना इति गृह्यन्ते / तस्य देशस्य परमाणुशो भेदे न रूपं रसो गन्धश्चोपलभ्यते / देशसम्बन्धेन रू(तू)पलभ्यमाना भवन्ति / देशतोऽत्यन्तभेदग्रहे तेषामभवनम् / तथा क्षणभेदे प्रथमक्षणेऽन्यद् रूपं, द्वितीयक्षणेऽन्यदिति गृह्यते चेन्न रूपं नाम किञ्चित् स्यात् , तन्निष्ठस्य कालस्य रूपग्रहणाश्रयसम्बन्धाभावादित्यभवनात्मका रूपादयः स्युः / आदिग्रहणाद् भावभेदेनैकगुण-द्विगुणत्रिगुण-कृष्णादिभेदेनागृह्यमाणत्वाद् विशिष्टस्य सामान्यस्यैव ग्रहणात् / ततः किम् ? अभवनात्मकत्वान्निर्वस्तुत्वापत्तिर्वन्ध्यापुत्रवत् / ततश्च निर्वस्तुत्वापत्तेरेतत् प्रतिपत्तव्यम्- द्रव्यमेव तथातथाभवनलक्षणं सत्यं न रूपादयो नाम केचित् इति / तथा तथेति रूप-रस(सादि)प्रकारेण भवति श्याम-रक्तताऽऽदितद्भेदप्रकारेण चेति ___ 1 पूर्व भदन्त ! अण्डकम् ?, पश्चात् कुक्कुटी ? / 2 रोह ! पूर्वमेते, पश्चादपि एते / द्वावप्येतो शाश्वतौ भावौ / अनानुपूर्वी एषा रोह ! /