________________ 302 नयचक्रम् / [विधिनियमारः तदुभयं भोक्तृ-भोग्यं चान्योन्यभावापत्तेः / तदा(था) चतुर्विधोऽप्याहारोऽशनादिराहाहार्यभावाद् भोक्त-भोग्यं च / तच शुभाशुभेष्टानिष्टकारणमेवेति / कायचैतन्ययोर्वैक्यपरिणामापन्नस्यैव भोक्त-भोग्यपरिणामवृत्तित्वं सिद्धम् / अत आहारवच्छुभाशुभादिधर्मताऽस्येति / यथाऽऽहारः शुभश्चाशुभश्च दृश्यते, संस्कृतासंस्कृतः, संस्कृतोऽप्यशुभ एव संस्क्रियमाणान्नाद्यशुभत्वात् , संस्काराभिमतकर्पूरादेरपि कालान्तरे दौगन्ध्यादिदर्शनात् / सर्वपुद्गलानां प्रागुक्तविधिना शुभाशुभत्ववत् पुद्गलत्वादाहारः शुभोऽशुभश्चेति, तथा काय इति / अथवा चेतनाचेतनयोरात्म-शरीरयोरैक्यपरिमाणा(णामा)त् तदेव भोक्तृ भोग्यं चेत्यनेनैवाहारदृष्टान्तेन सम्बद्धं प्रत्येकमपि साधयत्येतद्धर्मद्वयमित्यत आह-भोक्तृत्वाद् , भोग्यत्वादिति / एवं कर्तृत्वात , कर्मत्वादाहारवच्छभोऽशुभश्च काय इति / अथवा सुखोऽपि दुःखोऽपि स एव कायः सुखस्तावद् दुःखत्वादाहारवत् / दुःख सुखत्वादाहारवत् / यत् परं प्रत्यसिद्धं तदितरेण सिद्धेन धर्मान्तरेण साध्यम् / एवमिष्टोऽप्यनिष्टत्वादनिष्टोऽपीष्टत्वादाहारवदेव / इतर आह- तच न, उ(नन्वन्नो)दकशुभाशुभते प्रतिविशिष्टापशदयोगकृते प्रतिविशिष्टकपूरायेकान्तशुभद्रव्ययोगे सति जलाघशुभगन्धमपि सत् सुरभीक्रियते / अधिकगुणाभिभवभावनया, एवमशुच्यपशदद्रव्ययोगे सति तदुत्कृष्टगन्धाभिभवात् तद्भावनया कर्पूराद्यपि तद्गन्धीभवदुपलभ्यते / अथवा तदेव विनष्टं शुभतडा(टा)कादिगतमल्पं शुष्यच्छुष्यत् कर्पूरगन्धं भवदुपलभ्यते / नालिकेरफलानि सुरभीणि सन्ति पूतीभवन्ति दृश्यन्ते, तस्मादुभयधर्मता सर्वद्रव्याणाम् / तथा कायोऽपीत्येतच्च न, एकैकस्य सर्वरूपद्रव्यभवनपरमार्थत्वात् / वीप्सया व्याप्ति सर्वरूपद्रव्यभवनस्य भावकस्य भाव्यस्य च दर्शयत्येकैकस्येति / सर्वशुभाशुभेष्टानिष्टकारणत्वादिरूपो हि द्रव्यभवनपरमार्थः / एवं हि भवदेव भव[]द्रव्यं परमार्थतो भवति, नान्यथा / यथोक्तम् "एगमेगस्स णं भंते ! जीवस्स एगमेगे जीवे मातित्ताए" इत्यादि प्रश्नः / यावद् आजातपुव्वे / व्याकरणम्- गोतम ! असई अदुवा अणंतखुत्तो' एवं सव्वजीवाण वि एगजीवो, एगजीवस्स वि सव्वजीवा, तथा सव्वपोग्गला एगजीवस्स सव्यजीवाणं च आहारत्ताए, ज(ऊ)सासत्ताए, भासत्ताए, सरीरत्ताए, 1 एकैकस्य ननु भदन्त ! जीवस्य एकैको जीवो मातृतया? आजातपूर्वः ? / 2 गौतम! असकृत् , अथवा अनन्तकृत्वः। एवं सर्वजीवानामपि एकजीवः, एकजीवस्यापि सर्वजीवाः, तथा सर्वपुद्गला एकजीवस्य सर्वजीवानां च आहारतया, उच्चासतया, भाषातया, शरीरतया, इन्द्रियतया, मनस्तया, आण-प्राणतया।