Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 298
________________ सत्त्व-रजस्तमसा प्रकाशात्मकताविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 245 प्रकाशात्मकेनेत्यादि, यावत् प्रख्याप्यते इत्ययमेको विकल्पः, सत्त्वं प्रकाशात्मकं सत् तदात्मकयोरेव रजस्तमसोः शब्दात्मना व्यवस्थानेनेति स्वयं शब्दात्मना व्यवतिष्ठमानं तेनात्मनोपकुर्वत् तयोः शब्दात्मभावाय प्रवृत्तिः प्रख्याप्यते / का सा प्रवृत्तिः ? व्यक्तिरित्यर्थकथनं प्रवृत्तिं प्रख्यापयतीत्येतदेव स्फुटीकर्तुकामः प्रवृत्तिः प्रख्याप्यत इति विभक्तिविपर्यासेन विवृणोत्याख्यातेनाभिहितकर्मकत्वात् / प्रथमया एष प्रथमः प्रश्नविकल्पः। द्वितीयस्तु [प्रकाशात्मकयोः,] उताप्रकाशात्मकयोरिति रजस्तमसोरप्रकाशात्मकयोर्वा तत् सत्त्वं शब्दकार्य प्रख्याय शब्दात्मना व्यवतिष्ठमानं शब्दात्मभावाय प्रवृत्तिं ख्यापयतीति प्रश्नः / प्रकाशात्मकयोरित्येष विकल्पो न घटत एव, सत्त्वरजस्तमसां जात्यन्तस्त्वाभ्युपगमात् प्रकाश-प्रवृत्ति-नियमकार्यत्वभेदात् सुख-दुःखमोहात्मकभेदाच्च रजस्तमसी न प्रकाशात्मके इति / / - अत्रोच्यते- यद्यप्रकाशेत्यादि, यावद् रजस्तमसी इवेति / यद्यप्रकाशात्मके रजस्तमसी शब्दात्मभावाय प्रख्याप्येते ततस्तद्वत् सत्त्वं पुरुषस्यापि तर्हि शब्दात्मभावाय प्रवृत्तिं प्रख्यापयिष्यति / तदर्थविवरणम्- शब्दत्वायैनं प्रवर्तयिष्यति, शब्दत्वपरिणामेनैवं(न) परिण[म]यिष्यतीत्यर्थः / सत्त्वेन शब्दकार्यप्रख्यातिना शब्दात्मना व्यवतिष्ठमानेन पुरुषः शब्दात्मभावाय प्रवर्त्यतेऽभिव्यज्यते व्यवस्थाप्यते च / अप्रकाशात्मकत्वात् / यद् यदप्रकाशात्मकं तत् तत् सत्त्वेन शब्दकार्यप्रख्यातिना [शब्दात्मना व्यवतिष्ठमानेन] शब्दात्मभावाय प्रवयं [व्य]ज्यं व्यवस्थाप्यं च दृष्टं यथा रजस्तमश्च विपक्षाभावाद् व्यावृत्तिवाच्यौ (च्ये)। तत्साधनव्याख्यानद्वारेण साधनान्तरोपन्यासद्वारेण वा ग्रन्थः अप्रकाशात्मकेनेत्यांदिः, यावद् रजस्तमोभ्यामिवेति / अपिशब्दाद् रजस्तमोभ्यामपि, तेनापि च पुरुषेणाप्रकाशात्मकेन शब्दभावाय प्रवर्तितव्यं, प्रकाशितव्यं, व्यवस्थातव्यमित्येते प्रवृत्ति-प्रकाश-नियमाः पुरुषकार्याः स्युः। स प्रवर्तते, प्रकाशते, व्यवतिष्ठते परिणमतीत्यर्थः / कुतः१ प्रकाशकोपपत्तेः तस्याप्रकाशकत्वे सत्युपपन्नप्रकाशकारकत्वादित्यर्थः। यद् यदप्रकाशकत्वे सत्युपपन्नप्रकाशकारकं तेन तेन शब्दभावाय प्रकाशितव्यं, प्रवर्तितव्यं, व्यवस्थातव्यम् / यथा रजसा तमसा च / अथवा रजस्तमश्च यथा प्रवर्तत इत्यादि यथाभिव्यक्तार्थानुरूपं व्याख्यातव्यमिति / एतस्य साधनस्यानैकान्तिकत्वोद्भावनार्थ साधनद्वारेण परमतमाशङ्कयाह- य(अ)थोच्येत- अप्रकाशत्वान्नैकान्त इत्यादि, सोपसंहारहेतुकप्रकाशनाप्रकाशनसाधने यावत् प्रकाशे इति / अप्रकाशत्वान्नैकान्तः शक्यते कर्तुमित्ययं हेतुर्न शक्य मै(ऐ)कान्तिकः कर्तु, यसाच्छक्यते वक्तुमित्थमपि-पुरुषः सत्त्वान्न

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384