Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ जगस्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलकृतम् / 291 वाय्वाकाशाद्यपि च ग्रीहि-माषाम्लजम्ब्वादि भवति / तत्कृताहारोऽपि पृथिव्यादि व्रीह्यादि, पृथिव्याद्यपि तत्कृताहारः / तत्कृताहार-शरीरेन्द्रिय-बुद्ध्यादि / तत्कृतमनुष्य-तिर्यङ्-नारक-देवादि च तत्कृताहार-व्रीहि-पृथिव्यादि च तत्कृताहार-शरीरेन्द्रिय-बुद्धि-मनुष्यादि सर्व परस्परतः सर्वात्मकं भवति / तत्प्रयुक्तत्वात् , तथाऽभिव्यक्तेस्तदादिकरत्वादित्यादि] हेतुभिः कियद् वोदाह्रियते ? न्यायस्यास्य व्यापित्वात् सर्व तदुदाहरणमेव / दिगमात्रप्रदर्शनार्थ चाह- इतश्चेतश्चेति / यदि व्रीहितो व्रीहेरादिकरत्वमथ पृथिव्यादितः पृथिव्यादेरादिकरत्वमिति तान्येवोदाहरणानि / एवं तत्कृताहारशरीरेन्द्रियादिष्वपि द्रष्टव्यम् / सर्वस्यैकैकस्य सर्वात्मकत्वात् / तत आहतदात्मकत्वात् तदव्यतिरिक्तत्वात् तत् तदेवेति तस्य तस्य प्रकारस्य हेतुत्वं दृष्टान्तत्वं चेति / ___ एवं दृष्टान्तभूतं प्रस्तुतन्यायप्रसाधितं सर्वसर्वात्मकवादं प्रथयित्वा दार्टान्तिकं पुरुष-कर्मवादमीश्वरकारणनिराकरणायाह पुरुषकर्मखप्येवमेवेत्यादि / पुरुषः कर्ता कर्मयोग्यानां पुद्गलान कर्मत्वेनादिकरः / [के] कर्मयोग्याः पुद्गलाः ? उच्यते- परमाणुवर्गणा अवग्रहणवर्गणा अग्रहणवर्गणा द्विप्रदेशवर्गणा एवं दशप्रदेशादिसङ्खयेयप्रदेशवर्गणाः / समानजातीयानामेकशो बुद्ध्याऽवस्थापितानां पिण्डो वर्गणा / कुचिकर्णकाभीर-सवर्ण-गोपिण्डवत् / अनन्तप्रदेशवर्गणा अपि काश्चिद् ग्रहणयोग्याः, काश्चिदग्रहणयोग्याः / ग्रहणयोग्यायोग्यत्वं चातिस्थूल-सूक्ष्मायोग्यत्वात् स्खेदोरेव(?) परमाणुशर्कराणां योग्यत्वाच्च मध्यमपरिमाणानाम् / तत्र या ग्रहणयोग्याः पुद्गलतो वर्गणाः तत्प्रमाणेन सिद्धानामनन्ततमभागः। अभव्यसिद्धीनामनन्तगुणाः / एष तावदौदारिकयोग्यस्य ज[घन्यस्य विधिः। तदुपर्येकपरमाणौ प्रक्षिप्त द्वितीयाऽप्यौदारिकयोग्या। एवमेकैकवृद्ध्या ता]न्यनन्तानन्तानि स्थानान्यौदारिककार[ण त्वेन ग्रहणयोग्यानि / जघन्यादुत्कर्षस्थानमसङ्ख्येयगुणम् / यस्मात् परम्परोपनिधया प्रथमस्थानादारभ्यानन्तस्थानेषु तेषु द्विगुणता भवति / तस्मादसङ्ख्यगुणं सङ्ख्येयगुणं वा / अनन्तरोपनिधया तु रूपादि(धि)कमेव तस्मिन्नुत्कृष्टौदारिकयोग्यद्रव्ये रूपे प्रक्षिप्ते जघन्यं वैक्रियशरीरस्याग्रहणयोग्यम् / एवं रूपाधिकवृद्ध्या तान्यप्यनन्तानन्तानि स्थानानि पूर्ववत् / जघन्यादुत्कृष्टमसङ्ख्येयगुणम् / को गुणकारः? श्रेण्यसङ्ख्यसङ्ख्यतमभागः। तेषामग्रहणानामुपरि वैक्रियस्य जघन्यं ग्रहणयोग्यम् / तान्यपि स्थानानि पूर्ववदनन्ता[नन्ता]नि / पुनराहारकाग्रहणानि तथा तदुपरि तद्रहणयोग्यानि / तथैवौदारिकशरीरयोग्येभ्यो वैक्रियशरीरयोग्यान्यसङ्ख्येयगुणानि, १-माने-प।
Loading... Page Navigation 1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384