Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 320
________________ वीतावीतप्रयोगेन प्रधानविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 267 प्रवृत्त्यहङ्कार-ममकार-क्रोध-मरण-विषादास्तमो-मोह-महामोह-तामिश्रा(स्रा)न्धतामिस्राः पञ्च विपर्ययाः इत्येतद् दृष्टफलपरिमाणम् / इत्थं रूपप्रवृत्तिफलपरिमाणमाध्यात्मिकानां कार्य-कारणात्मकानां भेदानां निर्दिष्टमनेन तैर्यग्योन-मानुषदेवेष्वपि सप्रपञ्चेषु ज्ञेयम् / तस्मात परिमितत्वात् संसर्गपूर्वका भेदा व्रीहाविव संसृष्टा मूलाङ्कुर-पर्ण-नाल काण्ड-प्रसव-तुष-शूक-पुष्प-क्षीर-तन्दुलकणभावाः। यथा वा शुक्र-शोणितसंसृष्टाः कललार्बुद-मांसपेशि-शरीरव्यूट-बाल्य-कौमार्य(र)-यौवनस्थाविरा भावा इति / ___ इतश्च- अस्ति प्रधानम् , भेदानां कार्य-कारणभावात् / शब्दाद्यात्मना व्यवतिष्ठमानानि सत्त्व-रजस्तमांसि प्रकाश-प्रवृत्ति-नियमैः परस्परार्थ कुर्वन्ति / सत्त्वं सत्त्वात्म]ना व्यवतिष्ठमार्न तद्भावायेतरयोः प्रवृत्तिं ख्यापयति / एवं रजः प्रवर्तयति, तमो नियमयति, शब्दाद्यारब्धानि पृथिव्यादीनि आर[म्भो]त्क्रमेण वृत्ति(धृति)-संग्रह-पक्ति-व्यूहावकाशदानः परस्परार्थ कुर्वन्ति / इन्द्रियाण्यप्यन्योन्यविषयग्रहणसाहायकेनोपकुर्वन्ति / यच्च यस्य विषयं प्रख्यापयत्यर्जयति, पाति, संस्करोत्युपधत्ते वा तत् कारणम् , इतरत् कार्यम् / स्थान-साधनात्मप्रख्यात्युपभोगैः करणार्थ करोति कार्यम् , करणं वृद्धि-क्षत-भग्न-संरोहण-संशो(से)क-परिपालनैः कार्यार्थं करोति / एवं बाह्या[ध्या]त्मिकानां दैव-मानुष-तैर्यग्योनानां सप्रपञ्चानामन्येनो(न्योन्यो)पकार-रक्षा-संग्रह-सेचन-पूजन-पोषण-स्थिति-शुश्रूषाऽऽदिविकल्पा वर्णाश्रयादीनां योज्याः। एककर्तृका भेदाः, परस्परोपकारकोपकार्यत्वात् , शयना[सना]दिवत् , तस्मादस्ति प्रधानमिति / __ इतश्च-अस्ति [प्रधानम् ,] शक्तिमदवस्थामात्रत्वात् / शक्तीनां कार्य-कारणानामधिष्ठितानाम्, अनधिष्ठितानां च स्वकार्यसमास्त्रिषु कालेषु शक्तयोऽवतिष्ठन्ते / तद्यथा- 'प्राक् प्रवृत्तेः शक्त्यवस्थानमनुमीयते' / प्रवृत्त्युपल[ब्धेः प्रवृत्तिकालेऽ]वस्थानमपवर्गदर्शनात् / प्रवृत्त्युत्तरकालावस्थानं प्रवृत्तिव्यतिरेकेणावस्थानदर्शनात् एवमाद्यन्तवद् व्यक्तमुपलभ्य व्यक्तशक्त्यावस्थाऽस्त्यनवस्थितशक्तराद्यवसानाभावात् खपुष्पवत् / अवस्थितशक्तेरेव तद्भावाद्, मृदः पिण्डादिभाववत् / तस्माद् व्यक्तशक्तिप्रवृत्त्युपलब्धेरस्ति प्रधानमिति / ___इतश्च- अस्ति प्रधानम् , वैश्वरूप्यस्याविभागप्राप्तेर्देश-काल-प्रमाणबल-रूपप्रत्यासत्तेरवश्यम्भाव्युच्छेदाभ्यां च निवृत्तेः। जल-भूम्योः पारिणामिकं रसादि] वैश्वरूप्यं स्थावरेषु दृष्टम् / तथा(या) स्थावराणां जङ्गमेषु, जङ्गमानां स्थावरेषु, स्थावराणां स्थावरेषु, जङ्गमानां जङ्गमेषु / जात्यनुच्छेदेन सर्व सर्वात्मकं देशकालाकार-निमित्तावबन्धी तु न समानकालमात्माभिव्यक्तिस्ते मन्यामहे जल 1 °मग्न भ / 2 °शरवाह भ / 3 °कोर भ /

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384