Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ बीतावीतप्रयोगेन कार्य-कारणविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 269 व्याम-रज्वात्मोपचयैन त्वसति भावः कश्चिदस्ति, यः प्रतिपद्यमानः परिमाणे ऽवतिष्ठेत / तस्मान्निःप(प्पोरिमाणमिदमव्यवस्थितमित्येतत् प्रसज्येत / न त्विदं ताक्, तस्मान्नेदं व्यक्तमसत उत्पद्यते?, [न चेदं सत उत्पद्यते] परिशेषतः प्रधानादेवेदम् / तस्मादस्ति तत् / किं चान्यत्- एकजातिसमन्वयाभावाप्रसङ्गादिति / तदेव स्थाली-घटेत्यादि दृष्टान्तविशेषः सामान्य-विशेषोत्थापनार्थमुच्यते। अत्र परो ब्रूयाद्- 'विशेषमात्रस्य दर्शनादसत उत्पत्तिस्तद्यथा- आकारो गौरवमित्यादि धर्मभेदादिति'। तत्रोत्तरम् - ताद्रूप्येणोपकाराददोष इति / धर्मभेदपरिणत्या लोकवृत्तान्तनयनादित्युपकारभेदप्रदर्शनात् कार्यकारणभाव-वीतस्य वीतत्वलेशं च स्पृशतीति तस्मादेव ग्रन्थादवगन्तव्यम् / यावत् पुरस्ताद् व्याख्यातम् / त(य)था तैर्यग्योन-मानुष-दैवानि परस्परार्थ न कुर्वीरनिति / तत्र यदुक्तं 'भूतानां तत्समूहानां च व्यावृत्तेविशेषमात्रमिदं व्यक्तम् , तस्मादसत उत्पद्यते' इत्येतदयुक्तमिति / पुनरसत्समन्वयाशङ्कां निरस्य प्रपञ्चेन यावत् तस्माद् युक्तमेतद् योन्यभावाद् भेदप्रसङ्ग इति / एषोऽन्वयवीतस्यावीतः [स] प्रसङ्गो [व्याख्यातः / आचार्यणापि तथैव 'व्यवस्था तुल्यजाति-समन्वयादि' इत्युक्तम् / तेनैव क्रमेण आदिग्रहणान्व(त् त्र)यः शेषा अप्यावीताः सूचिताः। तत्र कार्य-कारण[वीतस्या]वीतस्तावत् / किं चान्यत्-कार्य-कारणयोश्च व्यक्तमिदं द्विधा कृत्वा कार्यराशिं कारणराशिं च / किं च 'नासत उत्पत्तिः सम्भवति' इति वाक्यशेषः / क्रम-योगपद्य-प्रवृत्त्यसम्भवात् / परस्परार्थात्मलाभत्वात् कार्य-कारणयोरन्योन्यानुरूपात्मलाभाभावः / अतः क्रमेण प्रवृत्त्यभावश्चक्राक्षवत् / असत्त्वादसद्वादिनः। तथा युगपदप्यभूतविनष्टयोरनपेक्षत्वात् , खरविषाणवत् / क्रियाऽऽदि-मध्यावसानेष्वसत्त्वादेव प्रवृत्त्यसम्भवः / यदारभ्यते तत् क्रियते, निष्ठां च गच्छतीति लोके दृष्टम् / तत् परस्परापेक्षामन्तरेण न सम्भवति / चक्राक्षवदित्युक्तम् / तस्मात् क्रम-योगपद्य-प्रवृत्त्यसम्भवादकार्यकारणत्वप्रसङ्गः / कार्यकारणभूतं चैतद् व्यक्तम् / तस्मान्नेदम[स]त उत्पद्यते, परिशेषतः प्रधानादेवेदमिति कार्यकारणवीतस्यावीतः। किं चान्यत्-निर्बीजमकस्मादुत्पद्यमानं व्यक्तमनेकदेशत्वात् भेदानामसम्बद्धमुत्पद्यते, सम्बन्ध(द्धं) चोत्पद्यते; तस्मान्नेदमसत इति शक्तिवीतस्यावीतः। शेषस्तु प्रश(स)क्तानुप्रश(स)क्तविचारेण / संस्थानमादिसद्धर्ममानं शब्दादीनां विनाश्य-विनाशिनाम् / एवं लिङ्गमादिम[स]द्धर्ममात्रम् / सत्त्वादीनां विनाश्य-विनाशिनाम् , तस्मिन् विकारसंज्ञा / तत्र यदुक्तं 'विकारस्य विनाशित्वात् प्रधानस्य 1 °तः दक्त भी
Loading... Page Navigation 1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384