Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ 285 जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / वैयर्थ्यम् / तत एव हेतोः, रथकारापेक्षरथदारुवदिति विरुद्धकान्तिकः / तदुपसंहृत्याह- प्रवर्तयितृत्वाञ्चेश्वरस्येत्यादि, यावत् पुरुष एवेश्वर इति / प्रवर्तयिता हीश्वरो दासस्य खामिवत् / तच्च प्रवर्तयितृत्वं कर्मणः सिद्धमुक्तविधिना प्रवर्त्यत्वं चेश्वरस्य, तथा प्रवर्तकं कर्म, कर्मणः पुरुषः प्रवर्तत इति प्रकृतत्वाद् गम्यते / इतिशब्दो हेत्वर्थे / तस्मात् पुरुष एवेश्वरः सर्व इति / एवं कर्मेश्वरताऽपि तु यथैवं तथोत्तरत्र भावयिष्यते / पुरुषस्य तावत् सर्वस्येश्वरत्वमुक्तमिति / एवं प्रतिघातप्रसङ्गोऽपीत्यादि / किश्चान्यत्- प्रतिहन्यते च त्वदभिमतेश्वरः सापेक्षप्रवृत्तित्वात् रथकारवत् / अस्य साधनस्य व्याख्या- यथा रथकार इत्यादि / उपादानं दारु, उपकरणानि वास्यादीनि, तेषामसामर्थ्य वैगुण्यं सतामेव वि(वैकल्यं त्वन्यतमाभाव एव / तत्र प्रतिघातो दृष्ट इति वाक्यविशेषः / तथेत्यादि दालन्तिकं सापेक्षप्रवृत्तित्वसाधयानुगमेनोपनयनं रथकारे काय, वैधयेण तु दर्शयति- अपचितकुशलमनुजिघृक्षत इत्यादिना / पुरुषमपचितशुभकर्माणमनुगृहीतुमिच्छतस्तद्विपरीतं चोपहन्तुमिच्छतस्तथे(स्ये)श्वरस्य यद्यप्रतिघातः स्यात् ,स्वातन्त्र्यं न तु भवति। अपेक्ष्यस्य कर्मणः स्वकृतकर्मवशस्य प्रत्ययेन तद्वशेनेश्वरस्य प्रवृत्ति प्रतिघातदर्शनात् / न चेदेवमिष्यते / शुभकर्माणं दुःखेनेतरं च सुखेन योजयेत् / तथा चाकृताभ्यागम-कृतप्रणाशौ स्यातामित्युक्तम् , तच्च नेष्टम् / तस्मात् पुरुषकर्मप्रत्ययेनेश्वरप्रवृत्तिप्रतिघातोऽस्ति / प्रवृत्तिप्रतिघाताच नैश्वयं तस्य प्रतिघात्यत्वात् , पृथग्जनवदित्यनीश्वरः स इति / यत्तूच्यत इत्यादि यावत् प्रलयक्षपायां शाययति इति / कालभेदेन सापेक्ष-निरपेक्षप्रवृत्तिपक्षयोरभ्युपगमादुभयथापि सिद्धेः प्रवृत्तिप्रतिघातासम्भवाददोषः।। तद्यथा- सर्गादौ धर्माधर्मविकलानां शरीरेन्द्रिय-विषयोत्पादने निरपेक्षोऽप्रतिहतस्वशक्तिवशादेव शरीरादीन्युत्पादयति / तांश्चोत्पाद्य बुद्धानां सुप्तोत्थितानां धर्माधर्ममर्यादामुपदिशति- 'तपो-दान-यज्ञादि कुरुत, मा काट हिंसाऽनृतस्तेया[गम्य-]गमनादीनि' इति / तयोश्च धर्माधर्मयोः सीमाच्छेदेन व्यवस्था मर्यादामुपदेशेन व्यवस्थापयति / मध्यकाले च तेषां प्राणिनां यथाखं धर्माधर्ममर्यादामनुतिष्ठतामनुष्ठानानुरूपेण फलेनेष्टेनानिष्टेन वा विषयोपयो(भो)गलक्षणेनानुग्रहं करोति, यदा तदा सापेक्षोऽप्रतिहतस्वशक्तिवशादेव / 5 स्यान्मतम्- धर्मानुष्ठानफलोपभोगेनेष्टेनानुग्रहो युज्यते / कथमधर्मानुष्ठानफलोपभोगेनानिष्टेन युक्तः ? इति /
Loading... Page Navigation 1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384