________________ 285 जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / वैयर्थ्यम् / तत एव हेतोः, रथकारापेक्षरथदारुवदिति विरुद्धकान्तिकः / तदुपसंहृत्याह- प्रवर्तयितृत्वाञ्चेश्वरस्येत्यादि, यावत् पुरुष एवेश्वर इति / प्रवर्तयिता हीश्वरो दासस्य खामिवत् / तच्च प्रवर्तयितृत्वं कर्मणः सिद्धमुक्तविधिना प्रवर्त्यत्वं चेश्वरस्य, तथा प्रवर्तकं कर्म, कर्मणः पुरुषः प्रवर्तत इति प्रकृतत्वाद् गम्यते / इतिशब्दो हेत्वर्थे / तस्मात् पुरुष एवेश्वरः सर्व इति / एवं कर्मेश्वरताऽपि तु यथैवं तथोत्तरत्र भावयिष्यते / पुरुषस्य तावत् सर्वस्येश्वरत्वमुक्तमिति / एवं प्रतिघातप्रसङ्गोऽपीत्यादि / किश्चान्यत्- प्रतिहन्यते च त्वदभिमतेश्वरः सापेक्षप्रवृत्तित्वात् रथकारवत् / अस्य साधनस्य व्याख्या- यथा रथकार इत्यादि / उपादानं दारु, उपकरणानि वास्यादीनि, तेषामसामर्थ्य वैगुण्यं सतामेव वि(वैकल्यं त्वन्यतमाभाव एव / तत्र प्रतिघातो दृष्ट इति वाक्यविशेषः / तथेत्यादि दालन्तिकं सापेक्षप्रवृत्तित्वसाधयानुगमेनोपनयनं रथकारे काय, वैधयेण तु दर्शयति- अपचितकुशलमनुजिघृक्षत इत्यादिना / पुरुषमपचितशुभकर्माणमनुगृहीतुमिच्छतस्तद्विपरीतं चोपहन्तुमिच्छतस्तथे(स्ये)श्वरस्य यद्यप्रतिघातः स्यात् ,स्वातन्त्र्यं न तु भवति। अपेक्ष्यस्य कर्मणः स्वकृतकर्मवशस्य प्रत्ययेन तद्वशेनेश्वरस्य प्रवृत्ति प्रतिघातदर्शनात् / न चेदेवमिष्यते / शुभकर्माणं दुःखेनेतरं च सुखेन योजयेत् / तथा चाकृताभ्यागम-कृतप्रणाशौ स्यातामित्युक्तम् , तच्च नेष्टम् / तस्मात् पुरुषकर्मप्रत्ययेनेश्वरप्रवृत्तिप्रतिघातोऽस्ति / प्रवृत्तिप्रतिघाताच नैश्वयं तस्य प्रतिघात्यत्वात् , पृथग्जनवदित्यनीश्वरः स इति / यत्तूच्यत इत्यादि यावत् प्रलयक्षपायां शाययति इति / कालभेदेन सापेक्ष-निरपेक्षप्रवृत्तिपक्षयोरभ्युपगमादुभयथापि सिद्धेः प्रवृत्तिप्रतिघातासम्भवाददोषः।। तद्यथा- सर्गादौ धर्माधर्मविकलानां शरीरेन्द्रिय-विषयोत्पादने निरपेक्षोऽप्रतिहतस्वशक्तिवशादेव शरीरादीन्युत्पादयति / तांश्चोत्पाद्य बुद्धानां सुप्तोत्थितानां धर्माधर्ममर्यादामुपदिशति- 'तपो-दान-यज्ञादि कुरुत, मा काट हिंसाऽनृतस्तेया[गम्य-]गमनादीनि' इति / तयोश्च धर्माधर्मयोः सीमाच्छेदेन व्यवस्था मर्यादामुपदेशेन व्यवस्थापयति / मध्यकाले च तेषां प्राणिनां यथाखं धर्माधर्ममर्यादामनुतिष्ठतामनुष्ठानानुरूपेण फलेनेष्टेनानिष्टेन वा विषयोपयो(भो)गलक्षणेनानुग्रहं करोति, यदा तदा सापेक्षोऽप्रतिहतस्वशक्तिवशादेव / 5 स्यान्मतम्- धर्मानुष्ठानफलोपभोगेनेष्टेनानुग्रहो युज्यते / कथमधर्मानुष्ठानफलोपभोगेनानिष्टेन युक्तः ? इति /