________________ 284 नयचक्रम् / [विधिनियमारः च्यात् तत्कारणत्वं गमयति, शब्दाधारातीयकारणत्वाभावं चास्वातत्र्यात् तेषामिति नाव्यक्तमित्यव्यक्तस्येव वाऽप्रधानता भवतीति / यथा त्वयैवोक्तं तथैवेश्वरोऽस्वतत्रयात् कर्मापेक्षत्वादकारणम् / तान्येव कारणानीति गमयति ताभिरेव त्वदुक्ताभिरुपपत्तिभिरतो यदुक्तं त्वदुक्ता एवोपपत्तयः सर्वप्राणीश्वरतां साधयन्तीति तत् साधु / तद् भावयन्नाह भवति कर्तेत्यादि / प्राग्व्याख्या[ता]र्थान्येव भवत्येकायेकार्थपदानि यावत् तन्तु पटवदिति / यथा तन्तव एव पटनिष्पादनेन भवन्तस्तथा प्रवर्तनवृत्तत्वात् पटकारणानि, तथा पुरुषा एव कतोर इति / ईश्वरस्यापि चेत्यादि / तासामेवोपपत्तीनामितोमुखतां भावयत्यनेनापि ग्रन्थेन / यथा त्वया प्रागुपपादितं ब्रुवता पूर्व-पूर्वशक्त(क्ति)तारतम्येन सन्निहित-तद्विध-शक्तिविशिष्टबुद्धिरिति, तथेहापि ताभिरेवोपपत्तिभिस्तैरेव तन्त्वंश्वादिभिदृष्टान्तैः कर्मणि वृत्तेः कर्मनिष्ठत्वात् सृष्टयतिशयप्रकर्षस्य कर्मणां पुरुषत्वात / सर्व एव पुरुषः सन्निहित-तद्विधशक्तिः प्रतिविशिष्टबुद्धिप्रमाणीकृतक्रियः प्रतिविशिष्टवुद्धिना तेनैवेश्वरेणान्यैश्च शास्त्रकारैर्विश्वदृश्वभिरपि प्रमाणीकृतास्तत्कियाः फलपरिज्ञानार्थत्वाच्छास्त्रकारप्रभृतीनां सिद्धशात्राणामनतिशङ्कयत्वाच्च / स च स्वतन्त्रस्तथा प्रवृत्त्यापत्तेस्तेन प्रकारेण कर्मिप्राणिप्रवृत्तिवदीश्वरस्यापि प्रवृत्त्यापत्तेः एश्वरात् प्रवर्तयितृत्वादिति / आ ईश्वरात् / यावदीश्वरस्तावत् प्रवर्तयितृत्वादीश्वरस्य प्रवर्त्यत्वात् कारणानि सर्वपुरुषाः / शक्तिमत्प्रवृत्तीत्यादि, ईश्वरस्यापि तेषामेव शक्तिमतां पुरुषाणां शक्तिसाकल्य[सन्निध्य]सन्निध्योः प्रवृत्त्यप्रवृत्तिदर्शनादिति / तदेवोपपत्तिजातं स्मारयति / यावत् पक्रादिवदिति / आदिग्रहणाद् रजोवत् प्रवृत्तिवदित्यादि / पूर्ववदेव ग्रन्थं चा[ति]दिशति- यावदेवास्य सर्वत्वात् सर्वमूर्तिता एवमेव चास्य क्षित्याद्यष्टमूर्तितोच्यते इत्येतस्मादवधेरारातीयो ग्रन्थः सर्वो द्रष्टव्यः ताभिरेवोपपत्तिभिः सर्वप्राणीश्वरत्वे तद्वदेवेति / पुनरपि चोत्कर्षापकर्षदर्शनादित्यादिरीश्वरसगसाधनार्थो ग्रन्थः, प्रवृत्यनुभवफलेत्यादिस्तद्वदेव यावत् पुरुषा[तेऽ]प्रवृत्तेरेवोत्कर्षापको न निवर्वीजेश्वरकामचारेरणादिति कर्मकारणत्वार्थो गतार्थः। तस्मात् कर्मापेक्षत्वात् सर्वसर्वात्मकत्वात् सर्वेश्वरतेति / ___ कर्मापेक्षत्वे इत्यादि यावद् रथकारत्ववदिति चेत् स्यान्मतम्- कर्मापेक्षत्वेऽपि न व्यर्थमीश्वरकारणत्वम् , तदभावे प्रवृत्त्यभावात् / यत्र यदभावे प्रवृत्त्यभावः प्रवर्तकस्य तत्रेश्वरस्याप्यवैषम्य(यर्थ्य) दृष्टम् / यथा रथकारप्रवृत्ती रथार्थं दावाद्यपेक्षणमिति चेन्मन्यसे / तत्र(न), इतरत्रापि तुल्यत्वात् / कथमिति चेत् ? प्रयोगत एव दयते विपर्ययसिद्धिः / तद्यथा- ईश्वरापेक्षत्वेऽपि न कर्म