Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 287 भाव्यते ? इति चेत्, उच्यते / यदा तदेवं व्यामुयैवेत्यादि वनाग्रन्थः / यावदुपभोगविभाजनानुग्रहक्रिययाऽतिगरीयस्या किमिति वर्तते ? तस्मिन् हि काले प्राणिनामत्व(न्ध)लकवत् प्रवृत्तेरीश्वरस्यैव "तेषां शरीराद्युत्पादयामि, धर्माधर्ममर्यादां प्रणयामि, तत्र प्रवर्तयामि, तत्फलैरनुबध्नामि, तान् प्राणिनः फलानुरूपमिष्टमनिष्टं चोपभोग विभज्यानुगृह्णामि" इत्येवमादिकयाऽनुग्रहक्रियया क्लिश्यमानस्यानेकपुरुष-स्त्री-नपुंसक-जनसाधारणस्येव भृतकस्यातिक्लेशः / इति हेत्वर्थे / तस्मादतिक्लेशत्वादत्यन्तपरवशत्वमेवैश्वय शीतलिकापर्यायशब्दाभिधेयलूतावदुच्यत इति / किं चान्यत्- अनुग्रहोऽपि विपर्ययेणोच्यते अननुग्रह एव सन्ननुग्रह इति / किं कारणम् ? दुःखहेतु-दुःखात्मकाभ्यां दुःखहेतुत्वाद् इष्टोपभोगस्य हिंसाऽऽद्यात्मनोऽर्जन-रक्षण-क्षय-सङ्गदोषे दुःखात्मकत्वाच, अनिष्टोपभोगस्य दुःखात्म[क]त्वाच्चाननुग्रह एवासौ / दृष्टान्तः विषकृतभोजनक्लेशनवत् / यथा कश्चित् क्रूरमूर्खनृपतिः स्वरशान् भृत्यान् विषमिश्रमाहारं भोजयन् 'अनु. गृहामि वः' इति ब्रूयात् , तथा त्वदभिमतेश्वरोऽपीति / यच्चोक्तम्- "दुःखमपि तणमोक्षणवदनुग्रह एव' इत्यतदप्ययुक्तम् / संसारमोचक-व्याध-चाण्डालादिमारितसत्त्वानुग्रहप्रसङ्गात् / सत्त्वनिकायकलिकलुषकृतात्मोपनिपातनेनाशेऽबोधे सत्त्वानुग्रहवदज्ञानप्रसङ्गाच / तत्सायोज्यगमनेऽप्येवम् / ईश्वरेण किल सायोज्यं मोक्षः, स्वात्मना सायोज्यं गमयन्नप्यसौ प्राणिगणमतिक्लेशभाजनमेव करोति कृ(सृ)ष्टसंसारक्लिष्टेश्वरत्वस्योक्तलक्षणस्यामोक्षशब्दाभिधेयत्वात् ; अलमैश्वर्येण, मोक्षेण च तादृशा सदा सर्वपुरुषव्यापारोद्वहनायासात्मना / तस्माद् वरमात्माधीनं यथेष्टचेष्टं दौर्गत्यमपीति" एवं चेत् यत् त्वाशक्यते त्वया आद्यन्तवदित्यादिना ग्रन्थेन 'विनेश्वरेण किलते दोषा इतीष्टास्ते सहापीश्वरेण तथैवैव भवन्तीति / तदर्शयन्नाह साध्वेवेत्यादि गतार्थम् / हेतु-हेतुमद्भावप्रतिपादनक्रमेण यावत् तत्प्रसक्तौ क्रियाविलोपः / कुतः ? ईश्वरप्राधान्यादुक्तानन्तरदोषाचेति धर्माधर्मक्रियाः प्राणिनां न स्युः, फलाभावादीश्वरवशादेवाद्यन्त-मध्येषु फलसङ्करात् / ततश्च सर्वप्राणिनां निर्मोक्षः, निःशेषमोक्षस्तद्वशादेव सोनिर्मोक्षो वा प्रो(प्रस)क्त इति / यत् तु सर्वशास्त्रेत्यादि / एतद्दोषपरिहारार्थ कर्माद्युपसर्जनतयेश्वरप्राधान्यकारणे प्रोक्ते / कथमिति ? तद् भावयत्युत्तरेण ग्रन्थेन- आदौ स एव खशक्तित इत्यादिना, यावच्छरीरादिवत् [कुशला] कुशलाशयकलङ्कशुद्धं स्था(स्वा)पयतीति गतार्थः पूर्वपक्षः। धर्माधर्ममर्यादायाः परिपालकान् ब्रहमादीनाधिकारिकान् विनियुङ्क्ते इति शेषः।
Loading... Page Navigation 1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384