Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ 288 नयचक्रम् / [विधिनियमारः अत्रोत्तरमाहाचार्यः- इदमन्यथैवोद्ग्राह्यत इत्यादि / अन्यथा तावत् प्रतिज्ञायते ईश्वर-कर्मणोः प्रधानोपसर्जनभावाभ्युपगमाद् द्वैतम् / भाव्यते तु साध्यहेतु, व्याख्यानं क्रियते अन्यथा। कथमिति चेत् ? स एव स्वशक्तित एवान्यनिरपेक्ष इत्यवधारणादद्वैतार्थभावनाददृष्टादीनां तच्छक्तीनां च स्वतो व्यतिरिक्तानां निरासेन साक्षादि(देवाप्रयोजनेन कस्यचित् कश्चिदप्यन्यमप्रयोजयन् स्यात् स्वशक्तित एवेत्यवधारयता चाद्वैतमेव भाव्यते भवता / पुनरप्याह-एवं नियमनायेत्यद्वैतनियमनायेयमपि भावना / कतमा सा भावनेति चेत् ? तदनुध्यानात् पुण्यमुत्पाद्येत्येषाऽप्यद्वैतभावे(व)नैवेति / एवं तावत् प्रतिज्ञातं द्वैतमद्वैतं भावितमिति उक्तं प्रत्युपसंहियते तु द्वैताद्वैते द्वे अपि त्यत्त्वेति, प्रतिज्ञातभाविते द्वैताद्वैते अपि त्यक्त्वा / तत्राद्वैतस्य त्यागस्तावद् धर्माधर्ममर्यादास्थापनवचनेन कृत इति वाक्यशेषः / का मर्यादा ? उच्यते / मर्यादा नामानतिक्रमस्थानमिति मर्यादालक्षणमाह, विषयतस्तु सुख-दुःख-प्रवृत्तिसीमा- इयति विपये सुखमियति दुःखमिति धर्माधर्मयोः सीमनि स्वके स्वके व्यवस्थापनम् / धर्मस्य सुखप्रवृत्तिच्छेदेनाधर्मस्य दुःखप्रवृत्तिच्छेदेन 'अयमस्मादन्योऽयमितरमादन्यः' इति सीमा-विभागः / ततः किमिति चेत् ? / ततश्च सगादौ स्थानादीत्यादीति / स्थान-विग्रहेन्द्रिय-विषयाः स्थानादयः, तदात्मके सुख-दुःखे अपि न स्याताम् / कस्मात्? अनियतविषयत्वात्। अनियतौ हि विषयौ तदा सुख-दुःखयोः अविद्यमानस्थानादित्वादविद्यमानधर्माधर्मत्वाच्च / दृष्टान्तः प्रलयवत / यथा प्रलये [धर्मा]धर्माभावादेवानियतविषये सुख-दुःखे ततश्चासती, तद्वत् सगोदावपि स्यातामिति / किं चान्यत्- अन्ते च स्यातां सुख-दुःखे इति वर्तते / कुतः ? अनियतविषयत्वात् / विषयानियमोऽपि यदू(च रू)पादिपञ्चकत्वाद्यभावाद् उपसंहरणकाले मध्यकालवत् / अथवा नियतविषयत्वात् व्यवस्थापितधमोधर्ममयोदत्वात् सुखदुःखे तदा नियतविषये, तस्मात् तदाऽपि स्यातां मध्यमकालवत् सृष्टयुत्तरकालवदित्यर्थः / तद्विपर्ययेण वा साधनम्-'मध्ये वा न स्यातां सुख-दुःखे नियतविषयत्वाद्' इति वर्तते अन्तवदिति / अथोच्येतेत्यादि, यावद् धर्मोऽय[मधर्मोऽय]मिति स्यान्मतम्- अत एवेश्वरस्यैव कारणत्वात् न सुखादिप्रवर्तनात्मिका धर्माधर्ममर्यादा तत्समर्थनासमर्थत्यर्थः / ईश्वरस्यैव सुख-दुःखयोः प्रवर्तकत्वात् / यदि सा न प्रवर्तयति सुख-दुःखे धर्माधर्ममर्यादा किमर्थमसौ तां व्यवस्थापयतीति चेदुच्यते- स्वरूपसंज्ञाव्यवस्थापनमसौ तयोर्लोकव्यवहारार्थं करोतीत्यत आह- किं तर्हि अयं धर्मोऽयमधर्म इत्येतावदुपदेशेन ? इति / अत्राचार्य उत्तरमाह- एतदपि तुल्यं पूर्वेण, असत्चात् सर्गादावन्तवन्न
Loading... Page Navigation 1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384