Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
________________ 286 नयचक्रम् / [विधिनियमारः अत्रोच्यते-- अयमनुग्रह एव तेषां तदृणमोक्षणादिति / ये पुनस्तदुपदिष्टमोक्षमार्गप्रस्थितास्तांश्च मोक्षमार्गोपसे विनः सायोज्यं गमयति / कोऽसौ मोक्षमार्गः ? माहेश्वरो योगविधिः। तानात्मना सह युङ्क्ते इति सयुक् , तद्भावः सायोज्यम् , तेषामीश्वरसाद्भावस्तं गमयति नयति / एतन्मध्ये सापेक्षमैश्वर्य पुनरप्यन्तकाले च शरीरेन्द्रियभूतवत् / यथा शरीरेन्द्रियाणि भूताख्यांश्च विषयानुपसंहरति, तथा कुशला कुशले तेषां धर्माधर्मावपि(वुप)संहृत्य तान् पुरुषान् सर्गाहनि संसृतवतः तेन धर्माधर्मफलेनेष्टानिष्टोपभोगात्मकेन दिवसव्यायामपरिश्रमाभिभूतान् बालकान् पुत्रकानिव पिता सर्वपुरुषान् संसारहेतुभूतधर्माधर्मानु(बु)पसंहृत्य प्रलयक्षपायां वापयतीत्यन्तेऽपि निरपेक्षोऽप्रतिहतस्त्रातव्यः स एवेष्टः। तस्मादुभयथाऽप्यपेक्ष्य[ नपेक्ष्य] च तदैश्वर्यसिद्धेरदोष एव दोषाभिमत्या त्वयोद्भावित इति परपक्षः। __ अत्र वयं ब्रूमः-तत्कारित्वात् तज्ज्ञत्वमिति / यत् सर्वज्ञत्वमाकाक्ष्यते, तदपि नैव / कर्मणामेव तन्निरपेक्ष्य(क्ष)प्रवृत्तौ तस्य प्रतिघातादनैश्वर्यं सृष्टप्राणिसंसारकाले सगाद्यन्तयोश्च अकृताभ्यागम-कृतप्रणाशादिदोषाः तदवस्था एवेत्यपरिह(ह. तदोपत्वान किञ्चिदेतत् / अन्योऽपि च दोषः / यदपि चाकाक्ष्यते तस्य सर्वज्ञत्वं सर्वकारित्वात् करणस्य ज्ञानाभावात् , सर्व चेत् करोत्येवावश्य सर्वमसौ वेत्तीति सर्वकारित्वात् सर्वज्ञ इति / तदपि नैवोपपद्यते / अस्यानर्थकार्थप्रवृत्तबालादिप्रवृत्तिवदज्ञक्रियासाधादज्ञोऽसौ बालबदसमीक्षितप्रवृत्तित्वादित्येतदनया [कल्पनया]ऽस्माकं त्वया प्रत्यक्षीक्रियते / किं कारणम् ? धर्माधर्मोपदेशप्रवृत्तेर नर्थकार्थविषयत्वात् / अनर्थको धर्माधर्मावाँ ह्यस्य धर्माधर्ममयोदोपदेशस्य न च तयोः [शरीराद्यभावाद] धर्माधर्मयोः शरीरादिकारणत्वं विनाऽपि धर्माधर्ममर्यादया सर्गादौ प्रभुसृष्टेः, शरीरादिनिवृत्त्यभ्युपगमात् / धर्माधर्ममर्यादायां सत्यामेव च प्रलयकाले शरीराद्यभावाभ्युपगमाचेश्वरसामर्थ्यादेव / तस्मात् तयोर्नास्ति कारणता, कारणलक्षणायोगात् / किं तत् कारणलक्षणम् ? इति चेदुच्यते- यस्याभावे इत्यादि गतार्थम् , यावदितरत् कार्यमिति / कथं तदयोगः ? इति चेदुच्यते- न च धर्माद्यभाव इत्यादिना ग्रन्थेन तयोः कारणाभिमतयोरभावेऽपि शरीरादेः कार्यस्य भावं भावेऽपि चाभावानु(दु)पदेशसाफल्यानभिज्ञत्वं च दर्शयति / यावददत्तफलकुशलाकुशलसंहारादन्तकाल इति गतार्थत्वान्न वित्रियन्तेऽक्षराणि / किं चान्यत्- यथा चोपदेश इत्यादि, यावत् क्रियाया अपयनभिज्ञत्वमिति वर्तते / न केवलमुपदेशानभिज्ञत्वमेव तस्य, किं तर्हि ? प्राणिनामनुग्रहक्रियाऽनभिज्ञताऽपि इति / तदतिदिशति / तत् कथं
Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384