Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 336
________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कतम् / - 283 अनपेक्षा चेत्यादि / किमियमीश्वरस्य धर्माधर्मलक्षणस्य कर्मणोऽनपेक्षा सतोसतः ? किं वाऽतः ? यद्यसत एव धर्माधर्मयोरसतोरेवानपेक्षा, किमिति प्रश्नः / ततः किमिति चेत? उच्यते-क्रियाविलोपः / असतोर्हि तयोः खपुष्प-खरविषाणयोरिव काऽपेक्षा ? / ततश्च हिताहित-प्राप्ति-परिहारार्थाः सर्वाः क्रिया विलुप्येरन् , इष्यन्ते च ताः। यस्मादुक्तं च वः शास्त्रे- 'योगं साधयिष्यन्' इत्यादि गतार्थम् , यावन्निद्रा-तन्द्रा-प्रमादालस्यरहितश्च स्याद्' इत्यादिरित्याचारविधायिग्रन्थस्मारणम् / किश्चान्यत् कर्माभावे चेत्यादि, यावन्निर्मूलता / अकर्मत्वात् प्राणिनः सदा मुक्ताः स्युस्ततश्च तन्विन्द्रियविषयसम्बन्धिनो न भवन्ति / ततश्च तन्वादिसृष्टिरीश्वरस्यानार्थका / ततश्च भाव्य-भावकभेदाभावः। तस्माद् भाव्य-भावकभेदाभावादीश्वरकर्म-प्रधानाण्यादिद्वैतकल्पनानिमूलता / एवं तावदसतः कर्मणोऽनपेक्षा न युक्ता / / अथ तु विद्यमानावेव धर्माधर्मावभ्युदय-प्रत्यवाय-निःश्रेयसक्रियायां नापेक्षते स ईश्वरः स्वतन्त्रत्वात् , प्रयोजनाभावाच्च / तयोर्विद्वव्याख्यानादिक्रियासु बलीवर्दानपेक्षणवदिति मन्यसे, ततोऽकृताभ्यागम-ऋतप्रणाशौ दोषौ स्याताम् / कथम् ? यथासङ्ख्यमाक्षीणोदितकर्माशयबन्ध-मोक्षाभ्याम् / यावत् क्षीणकर्मणोऽपि बन्धाभ्युदय-प्रत्यवाय-सम्बन्ध्यकृताभ्यागमः स्यात् / कुतः 1 धर्माधर्मनिरपेक्षत्वात् , खभाव-पुरुषादिवादिमतवदुदितात्यन्ताशुभकर्माशयस्य नारकादेरपि मुक्त्यभ्युदयसम्बन्धी कृतप्रणाशः स्यात् , धर्माधर्मनिरपेक्षत्वात् / पुरुष-स्वभावादि-वादिमतवदेव, अनिष्टं चैतत् / एवं तावदीश्वरस्य कर्मानपेक्षाऽनिष्टापत्तेरयुक्ता / अथैवंविधानिष्टापत्तिव्यावृत्त्यर्थ कर्मापेक्षःप्रवर्तत इति मन्यसे,ततस्तान्येव कर्माणि कर्तृणि स्वतत्राणि भवितॄणि ईश्वराणि / कस्माद्धेतोः ? तेषां तस्यापि तथा भावयितृत्वात् / यस्मात् तमपीश्वरं तेन तेन प्रकारेण भवन्तं भावयन्ति तान्येव कर्माणि, न स तानि कर्माणि तथा भावयति / कुतः ? तथा भाव्यमानत्वात् / प्रधानेन शब्दादिवदिति वक्ष्यमाणदृष्टान्तत्वात् / तथा च पृथिव्युदकादीन् व्रीहिरेव तथा भावयति पृथिव्याद्यपेक्षोऽपि तथाऽऽपत्तेः, न पृथिव्यादयस्तथाऽनापत्तेः / एवं कर्माण्येवेश्वराणि तथा भावयितृत्वात् , न त्वदिष्टेश्वरस्तथा भाव्यमानत्वादिति / स्यान्मतम्- पृथिव्युदकादीन्यपि भावयन्त्येव व्रीहित्वेन अनापन्नान्यपीति / एतच्चायुक्तम् , तेषामसत्त्वात् / असत्त्वं चानापन्नस्यासत्त्वात् , खरविषाणवदिति / सन्निधिभवनदूषणे प्रक्रान्तमेव न्यायं दर्शयति- अखतन्त्रत्वाच्छब्दादिवदिति / एष दृष्टान्तः सर्वत्र प्रधानकारणत्वसाधयेणोपात्तः कापिलान् प्रति यथा प्रधानखात

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384