Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ नयचक्रम् / 282 [विधिनियमारः कर्मजन्य-प्रमादराजवदेव ईश्वरस्याप्यन्यतरपुरुषकृतकर्मप्रत्ययप्रसादोत्पादनात् कर्मस्वातन्त्रयं, तत्कृतं हि कमवेश्वरप्रसादमुत्पादयत्यन्यतरेण कृतं, नेतरेणेत्यर्थः / अन्यतरपुरुषकृतकर्मप्रत्ययस्येश्वरप्रसादस्य तेनोत्पाद्यत्वात् / तस्मात् पुरुषकर्मापेक्षत्वादीश्वरप्रवृत्तेः कर्मप्राधान्यं प्रवृत्ती फले चेति / स्यान्मतम्- राजवदेव कर्मणः प्रवृत्तौ तत्फलदाने चेश्वरापेक्षत्वात् प्रधानं कारणमित्येतच न, यस्माद् द्रव्यादिपश्चकेत्यादि, यावत् प्रत्यक्षवत् / द्रव्यं क्षेत्रं कालं भावं भवं चापेक्ष्य हि कर्मणां प्रवृत्तिः, कृतानां च फलं प्रत्यक्षत उपलभ्यते / स एव पुरुषः कर्ता / द्रव्यं दाता, देयं वा द्रव्यं वस्तु सुवर्णादि / क्षेत्रं ग्राम-नगरारण्य-रणभूम्यादि, यत्र तत् प्राप्यते फलम् / कालः कसिंश्चित काले दिवा, रात्री, पूवाहेऽपराहे, सद्यश्चिराद् वेति / भावः प्रसन्नः, कुपित इत्यादिः। भवो हस्ति-महामात्रयोः / शरीरानुरूपाहाराभरणादि दानमिति / अत्र प्रयोगः- परत्रापि प्राणिकृतफलं प्रतिनियतद्रव्याद्यपेक्षं सुखादि क्रियायाः फलत्वात् / द्रव्यादिपञ्चकापेक्षसेवादिफलवत् / तस्माद् द्रव्यादिपञ्चकापेक्षमपि कर्म फलदाने स्वतत्रं प्राणिनियतेः प्रधान नेश्वरं च कर्मापेक्षते, परतत्रत्वात् तस्येति / त्वदभिमतेश्वरस्त्वित्यादि / अस्तु तावदीश्वरस्य स्वातन्त्र्य कानपेक्षा च, तस्य जगदुत्पादनार्थे प्रधानादि वर्तयतः प्राणिनां कर्माकारणत्वे तदनपेक्षायां च दोष उच्यते / तद्यथा- ततः प्रतिपुरुषेत्यादि / पुरुषं पुरुषं प्रति द्रव्यादिपञ्चकत्वेन नियामकं नियतम् / यदि कर्म न स्यात् , ईश्वर एवाविशिष्टो हेतुः स्यात् / ईश्वराख्यस्य कारणस्याविशिष्टत्वादविशेषः स्यात् / कस्य ? दैव-मानुप-तैर्यग्योन्या(ना)ख्यप्राणिगणस्य / कीदृग् विशेषः ? इति चेदुच्यते- स्थान विग्रहेन्द्रियोपभोगलक्षणो विशेषो न स्यात् / कस्मात् ? तद्विशेपहेतोरीश्वरस्य समानत्वात् / स तु विशेषो द्रव्य-क्षेत्र-काल-भाव-भवापेक्षनियतेः प्रतिपुरुषं च नियामकानि कर्माणि तत्पञ्चकापेक्षविपाके सति विशिष्टे स्यात् / दृष्टश्च सोऽसदभीष्टप्रतिनियतद्रव्यादिविपाककर्मप्राणिगणेश्वरत्वे सति युज्यते केषाञ्चिदभ्युदयः, केषाश्चित् प्रत्यवायः, केषाञ्चिदपवर्ग इति / अत्र प्रयोगःअनु[प]पन्नस्थान-विग्रहेन्द्रियोपभोगाभ्युदय-प्रत्यवायापवर्गादिविशेषमिदं जगत् स्यात् ,तुल्यकारणत्वात् ,पटतान्तवत्ववत् ।यथा पटस्तन्तुकारणत्वाविशेषात् तान्तवः, न मार्तिकः, सौवर्णों वेति जात्याकृति-वर्णाद्यविशिष्टस्तथेदं जगत् स्यात् / न तु भवति, तस्मादयुक्तम् / अथवा प्रतिनियतद्रव्याद्यपेक्षविपाकेऽनेकेश्वरकारणपूर्वकमेवेदं जगत , प्रतिविशिष्टजात्याकृति-वर्णादिस(म)त्त्वात् घट-पट-रथादिवत् / तस्मात् कर्मापेक्षमीश्वरत्वं सर्वप्राणिनामिति / अभ्युपेत्यापि कर्मानपेक्षां तत्र दोषान् ब्रूमः /
Loading... Page Navigation 1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384