________________ नयचक्रम् / 282 [विधिनियमारः कर्मजन्य-प्रमादराजवदेव ईश्वरस्याप्यन्यतरपुरुषकृतकर्मप्रत्ययप्रसादोत्पादनात् कर्मस्वातन्त्रयं, तत्कृतं हि कमवेश्वरप्रसादमुत्पादयत्यन्यतरेण कृतं, नेतरेणेत्यर्थः / अन्यतरपुरुषकृतकर्मप्रत्ययस्येश्वरप्रसादस्य तेनोत्पाद्यत्वात् / तस्मात् पुरुषकर्मापेक्षत्वादीश्वरप्रवृत्तेः कर्मप्राधान्यं प्रवृत्ती फले चेति / स्यान्मतम्- राजवदेव कर्मणः प्रवृत्तौ तत्फलदाने चेश्वरापेक्षत्वात् प्रधानं कारणमित्येतच न, यस्माद् द्रव्यादिपश्चकेत्यादि, यावत् प्रत्यक्षवत् / द्रव्यं क्षेत्रं कालं भावं भवं चापेक्ष्य हि कर्मणां प्रवृत्तिः, कृतानां च फलं प्रत्यक्षत उपलभ्यते / स एव पुरुषः कर्ता / द्रव्यं दाता, देयं वा द्रव्यं वस्तु सुवर्णादि / क्षेत्रं ग्राम-नगरारण्य-रणभूम्यादि, यत्र तत् प्राप्यते फलम् / कालः कसिंश्चित काले दिवा, रात्री, पूवाहेऽपराहे, सद्यश्चिराद् वेति / भावः प्रसन्नः, कुपित इत्यादिः। भवो हस्ति-महामात्रयोः / शरीरानुरूपाहाराभरणादि दानमिति / अत्र प्रयोगः- परत्रापि प्राणिकृतफलं प्रतिनियतद्रव्याद्यपेक्षं सुखादि क्रियायाः फलत्वात् / द्रव्यादिपञ्चकापेक्षसेवादिफलवत् / तस्माद् द्रव्यादिपञ्चकापेक्षमपि कर्म फलदाने स्वतत्रं प्राणिनियतेः प्रधान नेश्वरं च कर्मापेक्षते, परतत्रत्वात् तस्येति / त्वदभिमतेश्वरस्त्वित्यादि / अस्तु तावदीश्वरस्य स्वातन्त्र्य कानपेक्षा च, तस्य जगदुत्पादनार्थे प्रधानादि वर्तयतः प्राणिनां कर्माकारणत्वे तदनपेक्षायां च दोष उच्यते / तद्यथा- ततः प्रतिपुरुषेत्यादि / पुरुषं पुरुषं प्रति द्रव्यादिपञ्चकत्वेन नियामकं नियतम् / यदि कर्म न स्यात् , ईश्वर एवाविशिष्टो हेतुः स्यात् / ईश्वराख्यस्य कारणस्याविशिष्टत्वादविशेषः स्यात् / कस्य ? दैव-मानुप-तैर्यग्योन्या(ना)ख्यप्राणिगणस्य / कीदृग् विशेषः ? इति चेदुच्यते- स्थान विग्रहेन्द्रियोपभोगलक्षणो विशेषो न स्यात् / कस्मात् ? तद्विशेपहेतोरीश्वरस्य समानत्वात् / स तु विशेषो द्रव्य-क्षेत्र-काल-भाव-भवापेक्षनियतेः प्रतिपुरुषं च नियामकानि कर्माणि तत्पञ्चकापेक्षविपाके सति विशिष्टे स्यात् / दृष्टश्च सोऽसदभीष्टप्रतिनियतद्रव्यादिविपाककर्मप्राणिगणेश्वरत्वे सति युज्यते केषाञ्चिदभ्युदयः, केषाश्चित् प्रत्यवायः, केषाञ्चिदपवर्ग इति / अत्र प्रयोगःअनु[प]पन्नस्थान-विग्रहेन्द्रियोपभोगाभ्युदय-प्रत्यवायापवर्गादिविशेषमिदं जगत् स्यात् ,तुल्यकारणत्वात् ,पटतान्तवत्ववत् ।यथा पटस्तन्तुकारणत्वाविशेषात् तान्तवः, न मार्तिकः, सौवर्णों वेति जात्याकृति-वर्णाद्यविशिष्टस्तथेदं जगत् स्यात् / न तु भवति, तस्मादयुक्तम् / अथवा प्रतिनियतद्रव्याद्यपेक्षविपाकेऽनेकेश्वरकारणपूर्वकमेवेदं जगत , प्रतिविशिष्टजात्याकृति-वर्णादिस(म)त्त्वात् घट-पट-रथादिवत् / तस्मात् कर्मापेक्षमीश्वरत्वं सर्वप्राणिनामिति / अभ्युपेत्यापि कर्मानपेक्षां तत्र दोषान् ब्रूमः /