________________ 281 जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / एव कर्तारो भोक्तारश्चाभ्युपगन्तव्याः / अन्यथा हिताहित-प्राप्ति-परिहारार्थानां शास्त्राणामानर्थक्यप्रसङ्गात् / ततः कर्तुरेव भवितृत्वाभ्युपगमात् / कः कर्ता ? यः स्वतत्रः / कः स्वतन्त्रः ? भविताऽपि स एव / स्यान्मतम्- नन्वीश्वरः प्रयोक्तृत्वात् क(ते)त्युक्तम् , नेत्युच्यते, तस्यैव भवितुश्च प्रयोजनात् / सर्वः प्राणी प्रत्येकं भविता प्रयोजयत्यात्मनाऽऽत्मानं स्वकृतकर्मविपाकात्मकराग-द्वेष-भय-गौरवादिधर्मचोदितः / यथोक्तम् "प्रयत्न एवापरजन्मजोऽयं, सूर्यादयः श्राद्धजनप्रवादाः / उत्पश्यतामेव हि देवसिद्धिमुत्साहिनं श्रीभजते मनुष्यम् // " इति / तस्मात् तन्वादिप्रधानोऽण्वादिषु सत्स्वपि प्रवत्र्येषु तेषामेव कर्मसाद्भूतानां प्राणिनां भवितृत्वात् तत्तदापत्तेः, सर्वप्राणिनां खातत्र्यात् कर्मवशप्रेरितकार्य-कारणभावेन सततभवनात् तथा प्रवर्तकस्यैकैकस्य सर्वात्मकत्वात् सर्वेश्वरतेति साधूवतम् / इदानीं त्वदिष्टेश्वरकारणत्वे तु दोषा उच्यन्ते- ईश्वरात् त्वित्यादि / इदं चिन्त्यमीश्वरात् कर्मणः प्रवर्तनं किं सतोऽसतः ? / किं चातः ? तद् यद्यभूतस्य कर्मण ईश्वरः प्रवर्तकः, ततश्चाद्वैत पुरुषादिवादवत् प्राप्तं, तस्यापि तदात्मकत्वात् कर्मणोऽपीश्वरात्मकत्वात् , ईश्वरस्यैव कर्मत्वेनोपपत्तेः / भूतस्य चेत् , अथ भूतस्य कर्मण ईश्वरात् प्रवृत्तिस्तत एतत् प्राप्तम्- प्रागपि तत् कर्मास्ति, कारणे कार्यस्य सत्त्वात् / तच्चेश्वरात्मैव तनुकरणादि भाव्यवत् तथा भूतेस्तथा प्रवृत्तेस्तत्तदापत्तेरित्यादिभियुक्तिभिस्तथापि सुतरामद्वैतं तदात्मकत्वादेव पुरुषावस्थावदीश्वरभाव्यस्तदात्मकाण्वादिभवनवद् वा / अथ यस्मै प्रवर्त्यते यथा / अथाचक्षीथा न तत् कर्मेश्वरात्मकम् , किं तर्हि ? यस्मै प्राणिने शुभमशुभं वा नरक-तिर्यगमर-विचित्रभेदरूपेण येन येन प्रकारेण प्रवर्त्यते, तेनेश्वरेण तत् तत् प्राण्यात्मकं तदिति / अत्रोच्यतेतस्मात् [तर्हि तत् ] तथाभूतं प्रत्येकं प्राणिनः कारणात् तस्मात् तस्मात् तथा तथा भूतमित्यर्थः / तद्वशात् तथेश्वरप्रवृत्तेः ततस्तस्य प्रवर्तने स एवेश्वरः क्ष(कृ)तं त्वदिष्टमीश्वराख्यमात्मावशेन तथा प्रवर्तयतस्तस्य तस्य प्राणिन ईश्वरत्वं, नेश्वरस्य, तथा प्रवर्त्यत्वात् कर्मकरवत् / अथ तत्कृतमपि पुरुषकार-राजप्रसादादीश्वरापेक्षं प्रवर्तते / अथ मतम्-प्राणिभिः कृतमपि कर्मेश्वरकृतमेवेश्वरवशात् प्रवर्तमानत्वात् / तद्यथा- द्वयोः पुरुषयोस्तुल्यपुरुषकारयोरपि राजा एकस्यैव प्रसीदति, नेतरस्येति फलं राजवशेन दृष्टं, न पुरुषकर्मवशेन; तथेश्वरवशात् तत्कर्मप्रवृत्तिरिति / अत्रोच्यते- कृततां प्रति तावत् स्वातत्र्यं सिद्धम् , तस्यैव प्राणिनोऽपि (वि)नेश्वरेण प्राण्यनुष्ठेय-कर्मप्रत्ययप्रसादोत्पत्तेः / तत्र च राज्ञो निमित्तमात्रत्वात् / पुरुषकृत . न.च०३६