________________ 280 नयचक्रम् / अथ विधिनियमाख्यश्चतुर्थोऽरः। नन्वेवमित्यादि / पूर्ववदस्मिन् दर्शने न परितुष्यत उत्थानमित्यभिसम्बन्धः / नन्वित्यनुज्ञापने। नन्वेवं त्वदुक्ता एवोपपत्तयः प्रत्येकं सर्वप्राणीश्वरत्वं साधयन्ति / बाह्याध्यात्मिक-सुख-दुःख-मोहमात्रत्वाजगतः सदसवेद्य-मोहान्तरायभेदानां सुखादित्रयविपाकफलत्वानतिवृत्तेस्तदात्मसंवेद्यलक्षणत्वात् कर्मणः। सुखादिसंवेदनेनैव हि तत्कारणभूतं कर्म स्वकार्येण फलेन लक्ष्यतेऽनुमीयते सामान्यतो दृष्टानुमानेन देशान्तरप्राप्त्येवादित्यादिगतिरतः कारणे कार्यस्य सत्त्वात् , कार्ये कारणोपचारात् सुखादयः कर्म, अन्न-प्राणत्ववददृष्टं धर्माधर्माख्यं परैरिष्टमेव कर्मेति / आत्माऽपि कर्म कत्वं(थम् ?) तचादृष्टमात्मनो रागादिकर्मविपाकपरिणत्यवस्थस्य प्रयोगपरिणामात् कर्मतामापन्नं पुनरपि सुखाद् रागादिफलं, ततः पुनः कर्म, ततः सुखादिफलम् / तच्च जीवपरिणामात्मसात्कृतकार्मणयोग्यपरिमाण(णाम)परमाणुसमूह एवात्मस्थमेकीभूतं वा(चा)त्मना / यथोक्तम्-- “योगैः सकृत्स्वयोगान्मूर्तः स त्वाद्यमर्थमादत्ते / ___ आत्तस्य वा(चा)नुभवनं बन्धं प्रति स च ततोऽनन्यः॥" तच संवेद्यं कर्तुः संवेदनात् / ततः संवेद्यलक्षणत्वात् कर्मणः सर्वेश्वरतेति सम्भन्त्स्यते / कर्म हि प्रतिप्राणि नियतकर्तृकांश्च(कं स्व)विपाकसुखादित्वेन संवेद्यते, नाणूनामेवं कर्मत्वपरिणामापन्नानामात्मैकीभावेन वेदनं संवेदनम् / तेन च पुरुषेण तेषां तथा प्रयोजनात् कर्तृकत्वमतः सुखाद्यदृष्टाणूनामपि च कर्मत्वादित्याह-प्राक् प्रतिपादितं हि घणुक त्र्यणुकादिसंयोगैः पृथिव्युदक-व्रीह्यङ्करादिपरिवृत्तिरूपेणात्मनस्तेषां चैकत्वं सर्वसर्वात्मकत्वं च / तस्मात् कर्मकारणां जगत्प्रवृत्तिं साधयन्ति त्वदुक्ता एवोपपत्तयः। इतश्च-कर्मपूर्वकं जगत् , कर्मप्रवर्तनाभ्युपगमात् सर्वप्राणिनाम् , कर्मवशादेव हि प्राणिनः शुभाशुभजाति-कुल-रूपाद्युत्कर्षापकर्षाः / यथोक्तम् "स्वकर्मयुक्त एवायं सर्वोऽप्युत्पद्यते नरः। स तथा क्रियते तेन न यथा स्वयमिच्छति // " "यथाऽऽहारः काले परिणतिविशेषक्रमवशात् सुखं पथ्योऽपथ्योऽसुखमिह विधत्ते तनुभृताम् / तथा धर्माधर्माविति विगतशङ्कामपि कथां कथं श्रोतुं नेमा(या) विषयविपवेगक्षतधियः ? // " किं चान्यत्- कर्तृत्वात् प्राणिनामिति वर्तते / मा भूवन्नकृत्य(ता)भ्यागमकृतप्रणाशर-कर्तुस्त(बेन्त) फलसंक्रान्त्यादयो दोषा इति सदसदाचाराः प्राणिन