________________ नयविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 279 इत्यत्रैकैकं पदं वाक्यम् / किं कारणम् ? तस्मात् सर्वसर्वात्मकत्वादेव यमाद् देवदत्तोऽपि गवात्मकोऽभ्याज्यात्मकश्च / तथा प्रवर्तनात् तत्तदापत्तेस्तान्यपि तथेति तस्मात् सर्वसर्वात्मकत्वात् पृथक् पृथक् सर्व पदं वाक्यमिति / ___एतस्य विध्युभयनयस्य द्रव्यार्थभेदोऽर्थः पूर्वविरुद्धात् नयानामविकल्पार्थाद् विधिविधिनया[द्] विकल्पार्थद्रव्यार्थतया भिद्यते / ___ अथोक्तानां नयानां कस्मिन्नन्तर्भावः ? इत्यत आह- सङ्ग्रहदेशत्वाद् द्रव्यार्थः / सङ्ग्रहनयस्यापि शतधा भेदात् / तद्देशस्तदेकदेशः द्रव्यशब्दार्थः। कतमसिन् विग्रहे ? इति चेदुच्यते- द्रव्यमपि गुणसंद्रावः / तद्व्याख्या- समेकीभावे, 'द्रु गतौ तस्माद् गुणानामेकीभावेन द्रवणम्- 'कारणे कार्यस्य सत्त्वात् / सतामेव सुखादीनां रूपादीनां पृथक् पृथक् सन्निहितानामैक्यगमनाजीव-पुद्गलपरिणामः संगमनमाह-विध्युभय[नयत्वात् सन्निहिततद्विधशक्तीश्वरपृथक्त्वादग्वादीनां तदेकैक-सर्वात्मकत्वाच तेषां भवत्वेकीभावः, मा भूदीश्वरस्येति नेत्युच्यतेतेनापि तद्वशित्वात्-स[नि]हिततच्छक्तिनापि सहेश्वरेणैकीभावे तच्छक्तिव्यक्तेनीन्यथेति / अत एव चास्य नयस्याद्वैतवादात् भेदः। - आह-किं स्वमनीषिकयैतदुच्यते ? आहोस्त्रिदस्त्यस्य किश्चिदुपनिबन्धनमार्षमपि ? इति / अस्तीत्युच्यते उपनिबन्धनमस्य- "दुविहा पण्णवणा पनत्ता-'जीवपण्णवणा, अजीवपण्णवणा च' इति / अथवा- "किमिदं भंते ! लोए त्ति पवुच्चइ ? / गोअमा! जीवा चेव अजीवा चेव / एवं रयणप्पहा(भा) जाव ईसिपब्भारा समयावलियादि"॥ [भगवती सूत्र 480] इति विध्युभयारस्तृतीयो नयचक्रस्य // 1 द्विविधा प्रज्ञापना प्रज्ञप्ता / जीवप्रज्ञापना अजीवप्रज्ञापना च / 2 किमिदं भदन्त ! लोक इति प्रोच्यते ? / गौतम ! जीवाश्चैवाजीवाश्चैव / एवं रत्नप्रभा, यावत् ईषत्प्राग्भारा समयावलिकादि।