Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ 281 जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / एव कर्तारो भोक्तारश्चाभ्युपगन्तव्याः / अन्यथा हिताहित-प्राप्ति-परिहारार्थानां शास्त्राणामानर्थक्यप्रसङ्गात् / ततः कर्तुरेव भवितृत्वाभ्युपगमात् / कः कर्ता ? यः स्वतत्रः / कः स्वतन्त्रः ? भविताऽपि स एव / स्यान्मतम्- नन्वीश्वरः प्रयोक्तृत्वात् क(ते)त्युक्तम् , नेत्युच्यते, तस्यैव भवितुश्च प्रयोजनात् / सर्वः प्राणी प्रत्येकं भविता प्रयोजयत्यात्मनाऽऽत्मानं स्वकृतकर्मविपाकात्मकराग-द्वेष-भय-गौरवादिधर्मचोदितः / यथोक्तम् "प्रयत्न एवापरजन्मजोऽयं, सूर्यादयः श्राद्धजनप्रवादाः / उत्पश्यतामेव हि देवसिद्धिमुत्साहिनं श्रीभजते मनुष्यम् // " इति / तस्मात् तन्वादिप्रधानोऽण्वादिषु सत्स्वपि प्रवत्र्येषु तेषामेव कर्मसाद्भूतानां प्राणिनां भवितृत्वात् तत्तदापत्तेः, सर्वप्राणिनां खातत्र्यात् कर्मवशप्रेरितकार्य-कारणभावेन सततभवनात् तथा प्रवर्तकस्यैकैकस्य सर्वात्मकत्वात् सर्वेश्वरतेति साधूवतम् / इदानीं त्वदिष्टेश्वरकारणत्वे तु दोषा उच्यन्ते- ईश्वरात् त्वित्यादि / इदं चिन्त्यमीश्वरात् कर्मणः प्रवर्तनं किं सतोऽसतः ? / किं चातः ? तद् यद्यभूतस्य कर्मण ईश्वरः प्रवर्तकः, ततश्चाद्वैत पुरुषादिवादवत् प्राप्तं, तस्यापि तदात्मकत्वात् कर्मणोऽपीश्वरात्मकत्वात् , ईश्वरस्यैव कर्मत्वेनोपपत्तेः / भूतस्य चेत् , अथ भूतस्य कर्मण ईश्वरात् प्रवृत्तिस्तत एतत् प्राप्तम्- प्रागपि तत् कर्मास्ति, कारणे कार्यस्य सत्त्वात् / तच्चेश्वरात्मैव तनुकरणादि भाव्यवत् तथा भूतेस्तथा प्रवृत्तेस्तत्तदापत्तेरित्यादिभियुक्तिभिस्तथापि सुतरामद्वैतं तदात्मकत्वादेव पुरुषावस्थावदीश्वरभाव्यस्तदात्मकाण्वादिभवनवद् वा / अथ यस्मै प्रवर्त्यते यथा / अथाचक्षीथा न तत् कर्मेश्वरात्मकम् , किं तर्हि ? यस्मै प्राणिने शुभमशुभं वा नरक-तिर्यगमर-विचित्रभेदरूपेण येन येन प्रकारेण प्रवर्त्यते, तेनेश्वरेण तत् तत् प्राण्यात्मकं तदिति / अत्रोच्यतेतस्मात् [तर्हि तत् ] तथाभूतं प्रत्येकं प्राणिनः कारणात् तस्मात् तस्मात् तथा तथा भूतमित्यर्थः / तद्वशात् तथेश्वरप्रवृत्तेः ततस्तस्य प्रवर्तने स एवेश्वरः क्ष(कृ)तं त्वदिष्टमीश्वराख्यमात्मावशेन तथा प्रवर्तयतस्तस्य तस्य प्राणिन ईश्वरत्वं, नेश्वरस्य, तथा प्रवर्त्यत्वात् कर्मकरवत् / अथ तत्कृतमपि पुरुषकार-राजप्रसादादीश्वरापेक्षं प्रवर्तते / अथ मतम्-प्राणिभिः कृतमपि कर्मेश्वरकृतमेवेश्वरवशात् प्रवर्तमानत्वात् / तद्यथा- द्वयोः पुरुषयोस्तुल्यपुरुषकारयोरपि राजा एकस्यैव प्रसीदति, नेतरस्येति फलं राजवशेन दृष्टं, न पुरुषकर्मवशेन; तथेश्वरवशात् तत्कर्मप्रवृत्तिरिति / अत्रोच्यते- कृततां प्रति तावत् स्वातत्र्यं सिद्धम् , तस्यैव प्राणिनोऽपि (वि)नेश्वरेण प्राण्यनुष्ठेय-कर्मप्रत्ययप्रसादोत्पत्तेः / तत्र च राज्ञो निमित्तमात्रत्वात् / पुरुषकृत . न.च०३६
Loading... Page Navigation 1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384