Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ 268 जयचक्रम् / [विध्युभयारः भृम्योरप्येतत्पारिणामिकं रसादिवैश्वरूप्यम् , अन्येषां च भूतानामन्यपरिणाम इत्येवं तदप्यन्यस्येत्यवश्यम्भाव्यविभागः। यत्र चाविभागस्तत् प्रधानं वैश्वरूप्यस्थाविभागकारणपूर्वकत्वात् मयूरबह वैचित्र्यस्यैव तदण्डकरसपूर्वकत्वम् / तस्मादस्ति प्रधानमित्येभिः पञ्चभिर्वीतैः समन्वय-परिमाणोपकार-शक्ति-प्रवृत्ति-वैश्वरूप्यगत्याख्यैः सामान्यसंसगैककर्तृ-शक्तिमच्छक्तिविभागसंज्ञं प्रधानं सिद्धम् / अत एवैकत्वमर्थवत्त्वं परार्थत्वसंहत्यकारिणां पारायांच्छयनादिवत् / अतः पुरुषास्तित्वमन्यत्वं तद्बहुत्वं च पुरुषाणाम् / प्रधानस्याद्यन्तपुरुषार्थोपलब्ध्यनन्तरं निवृत्ति[:]वीयुदकगत्या रङ्गनर्तकीवद् वेति / प्रधान-पुरुष-संयोग विभागावित्थमियत्परिज्ञानफलं च शास्त्रम् / तथा संव्यवहारप्रसिद्धरित्यादि, यावदावीतानामिति व्याख्यातं द्रष्टव्यम् / एतेषामेव पञ्चानां वीतानां परिशुद्ध्यर्थाः पञ्चैवावीताः / एवमेभिः पञ्चभिवीतैः प्रधानस्य परिग्रहं कृत्वा पुनरावीतैः करिष्यामः 'परपक्षप्रतिषेधेन स्वपक्षपरिग्रहक्रिया सा [ss]वीतः' इत्यपदिष्टं पुरस्तात् / तस्यास्य प्रतिपक्षाः सर्वैकान्तिनः पुरुषेश्वराणु-प्रवादा विकारपुरुषा वैनाशिकाश्च / तेषां वि(वे)नाशिकप्रतिषेधमग्रे वक्ष्यामः / कस्मात् ? किञ्चिद् वि(वै)नाशिका हीतर इत्यतः प्रभृत्युपक्रम्यानुपलब्धेर्नास्तीति द्वितीयस्य शिरसो[न]भ्युपगतस्यासत उत्पत्त्यभावाद् व्यभिचारप्रसङ्गे गते यावदनागतेऽपि काले न भविष्यतीति / किश्चान्यत् यदि व्यक्तस्यासत उत्पत्तिर्भवत्यार्थिभिस्तृण-पांशु-वालुका मुक्तामणि-रजत-सुवर्णानि क्रियेरन् / कस्मात् ? अभावक्रिया [गुरुकायो] भावक्रिया लम्विति / न त्वेवं क्रियते, तस्मादयुक्तमित्यादि, यावदुक्तोत्तरत्वादसम्यग् विधिः। किं चान्यत्- यदि व्यक्तस्यासत उत्पत्तिर्योन्य]भावादेकत्वप्रसङ्गः / प्रधानाभावात् सामान्यमात्रमिदं व्यक्तं निर्विशेषमित्येतत् प्र]सज्येत / कस्मात् ? सामान्यपूर्वकत्वाद् विशेषाणाम् , सामान्यपूर्वका हि लोके विशेषा दृष्टास्तद्यथाक्षीरपूर्वका दधि-मस्तु-द्रप्स-नवनीत-घृतारिष्टं-किलाट-कूचिकाभावाः, न त्वसति भावः कश्चिदस्ति, यत्पूर्वका व्यक्तविशेषाः स्युस्तस्मात् सामान्यमात्रमिदं व्यक्तं निर्विशेषमित्येतत् / न त्वि(न्वि)दं तादृक्, तस्मान्नेदं व्यक्तमसत उत्पद्यते, न चेदं सत उत्पद्यते; पारिशेष्यात् प्रधानादेवेदं व्यक्तमुत्पद्यत इत्येतद् व्यक्तम् , तस्मादस्ति प्रधानमिति / एषोऽन्वयवीतस्यावीतः। किं चान्यदित्यादि / तदेव योन्यभावादनवस्थाप्रसङ्गः परिमाणस्य संसर्गपूर्वकत्वाविनाभावादित्यर्थः। प्रधानाभावान्निःप(प)रिमाणमि[दं व्यक्तमव्यवस्थितमित्येतत् प्रसज्येत / कस्मात् ? सतां यर्थानां लोके परिमाणं दृष्टं तुलामान-हस्त १°माणफलं प / 2 °दिष्ट 5 / 3 °वोन्वयी त° प /
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384