Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 328
________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 275 एतच्च न, अदृष्टकर्तृकविषयप्रतिज्ञार्थाव्यतिरेकात्। अदृष्टोऽस्याः कर्ता विषयः सेयमदृष्टकर्तृकविषया प्रतिज्ञा, तस्याः प्रतिज्ञायास्तनुकरण-भुवनधर्मिकायाः प्रतिविशिष्टबुद्ध्यधिष्ठितत्वसाध्यधर्मणः क्षीर-दधि-मेघादिधर्मिणामपृथक्त्वात् , प्रतिज्ञाऽन्तःपातित्वाद् विपक्षाभावे हेतुव्यभिचाराभावात् नानेकान्तः। शब्दानित्यत्वसाधने प्रतिज्ञा तु(नु)नीतजलवि(धि)ध्वन्यनित्य[त्ववद् यथा अ]नित्यः शब्द इति प्रतिज्ञाते कृतकत्वं देश-कालाभ्यामनवरते जलधिध्वनौ पुरुषादिभेदेन चानवरते सामादिशब्दे च दृष्टत्वादनेकान्त इति वचनम् / तदाभासचोदनम् , उदन्वत्-सादिशब्दानामप्युपादानभेदभिन्नानां शब्द इति श्रोत्रग्राह्यत्वाभेदेन प्रतिज्ञातानां शब्दत्वानतिक्रमात् पक्षान्त[ीत]त्वात् तदनित्यत्वम् / कृतकत्वाविनाभाविशब्दादन्यस्य नित्यस्य कृतकस्यादर्शनाच्च जायते, देश-कालोपादानभेदभिन्नस्याभेदेऽपि सत्युपलभ्यधर्मणोऽनुपलभ्यत्वाच्छब्दव्यक्तिधर्मित्वाच्च जात्युत्तरं च तस्मादनुत्तरमिति / स्थित्वा प्रवृत्तचेतनानधिष्ठितेश्वरवदनेकान्त इति चेत् स्यान्मतम्- यथेश्वरः स्वयं प्रागप्रवृत्तान् स्थित्वा प्रवर्तयन्नपि चेतनान्तरेणानधिष्ठितः प्रवृत्तश्च; तथा तन्वादीनि स्थित्वा प्रवृत्तानि स्युरित्यनेकान्तः। ईश्वरस्य वा चेतनाधिष्ठि[त]तेत्यादि / एवमनैकान्तिकत्वानिच्छाया वा चेतनाधिष्ठितोऽसावीश्वरः प्राप्तः, स्थित्वा प्रवृत्तेरदृष्टाणुप्रधानादिवत् अतोऽन्येश्वरता ग्रहाधिष्ठितस्त्री-पुरुषादिवत् , तस्यापि चाधिष्ठातुरन्याधिष्ठिततेत्य[नवस्था स्यादिति / ] एतच्च न, चेतनाधिष्ठितप्रवृत्तित्वसाध्यधर्मत्वात् नैष दोषः / चेतनाधिष्ठितप्रवृत्तित्वं हि साध्यते धर्मः, स चाचेतनमेव तद्धर्मिविषयत्वाच्चेतनानां सिद्धत्वात् , प्रयोजनाभावाच्च / तनुकरण-भुवनसाधनप्रवृत्तादृष्टाणु-प्रधानादीनि ह्यचेतनानि धर्मिणि चेतनाधिष्ठितत्वधर्मेण विशिष्टानि साध्यन्त इति प्रतिज्ञाविषयाज्ञानाददोष इति देवदत्ता[द]यस्तर्हि चेतनेश्वरा[नधिष्ठिताः प्रवर्तन्ते सामर्थ्यादचेतनधर्मिविषयं चेतनाधिष्ठानं साध्यते प्रतिज्ञाविषयव्यवस्थायां चेत[ना]नां देवदत्तादीनां चेतनेश्वरेणा]धिष्ठानं न प्रामोति / ततो देवदत्तादिवच्चेतनानधिष्ठि[तानि तन्वादिसाधनार्थादृष्टाणुप्रधानादीनामनेकान्तः / सोऽपि चेश्वरस्तद्वच्चेतनान्तराधिष्ठित इति प्राप्तमुच्यते च त्वया दृष्यत] एव त्वया चेतनानामपीश्वराधिष्ठानम् / यथा 'अन्यो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा // " (भा० व. अ. 30, श्लो० 28) 1 अज्ञो भ।

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384