Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 329
________________ 276 नयचक्रम् / [विध्युभयारः पुरुषवादनिरसनायेति श्लोकवचनप्रयोजनमाह- मा भूत् पुरुषकारणवादप्रसङ्गः, तदवस्थामात्रम् , नन्वदृष्टप्रधानाण्यादीति / अत उक्तं भवता 'अन्यो जन्तुरनीशोऽयम्' इति / अत्रोच्यते-न, प्राग् विशिष्टबुद्धिचेतनप्रतिज्ञानात प्रागस्माभिर्विशेषितं विशिष्टबुद्ध्यधिष्ठितानि तन्वादीनि विशिष्टबुद्धित्वं चापराधीनं स्वातत्र्यम् / तत कुतः सिद्धम् ? इति चेदुच्यते- विशिष्टबुद्धित्वमपि चास्यार्थानामर्थक्रियायोग्यत्वेन सन्निवेशकत्वात् , तन्वादीनि विशिष्टबुद्धिपूर्वकाणि अर्थक्रियायोग्यत्वेन सन्निविष्टावयवत्वात् स्थान-गमन-शयनासनाहारादिप्रयोजनानि हि तन्वादिषु क्रियन्ते / तत्क्रियायोग्यावयवसन्निवेशात् स्थपतिबुद्धिपूर्वकप्रासादवत् तस्मादर्थक्रियायोग्यत्वेनार्थानां सन्निवेशकः स स्थपतिवत् तस्माच विशिष्टबुद्धिरिति / अनैकान्तिकतोद्भावनार्थमाह- तन्वादीनीत्यादि, यावत् [नीलोत्पल]नालकण्टक-मयूरचन्द्र कादिवदिति / न हि प्रशस्तशुभवर्ण-गन्ध-रस-स्पर्शस्य लक्ष्मीनिलयस्य जलाशयालङ्करणस्य [कमलस्य] ग्रहण-धारणोपभोगादिसाधनभूते नाले केनचिदसू [य]या 'मा ग्रहीत् कश्चिद्' इति कण्टका[:] कृता नीलोत्पलनालादिष्वप्यतिप्रसङ्गात् / न च मयूरचन्द्रकाणामिन्द्रचापवर्णप्रतिस्पर्द्धिविचित्रवर्णता कृता / कुड्यादिषु चित्रकरेणेव केनचित् विशिष्टबुद्धिना चित्रकरचेतनदानाद्यभावप्रसङ्गादिति / अत्रोच्यते- न दधि-मेघादिवढुक्तोत्तरत्वात् , क्षीर-दधि-मेघादिवत् ; पद्मनालकण्टक-मयूरचन्द्रकादीनां तन्वादिवच्चादृष्टकर्तृकविषयप्रतिज्ञार्थाव्यतिरेकादनकान्तिकत्वाभाव इत्युक्तोत्तरमेतत् / __एवं तावत् सामान्येन विशिष्टवुद्धिपूर्वकतोक्ता / प्रस्तुतकापिलमतापेक्षया चैवं प्रतिज्ञायते- लघुप्रकाशेत्यादि, यावत् पाचकाधिष्टितानलोदकौदनसाधनवदिति / यथा परस्परप्रत्यनीकयोरग्युदकयोः प्रत्यनीकत्वविधायिना विशिष्टबुद्धिना पाचकेनाधिष्ठितयोः सत्यपि मिथः प्रत्यनीकत्वे तद्बुद्धिवशवर्तिनोः संहत्यकारित्वादो[द]नसाधनं दृष्टम् , तथा लघु-गुरुणोः प्रकाश-वरणयोः प्रवृत्तिनियमयोश्च मिथो विरुद्धयोरपि संहत्य महदादिभावेनैकार्थकारित्वाद् विशिष्टबुद्धिपूर्वकतेति / अन्योन्याभिभवन-मिथुनवृत्तित्व-विपरिणामादि चेत् स्यान्मतम्- सत्त्व-रजस्तमसामेवाङ्गाङ्गिभावः / पुरुषार्थमुद्दिश्य प्रवृत्तानां वैषम्यविपरिणामात् महदादिसाधनं ताभ्यः (नान्यः) प्रयोक्तेति / एतच्च न, परिणामस्यापि कार्यत्वात् , 5 अज्ञो भ। 2 °दुत्तरो° प।

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384