Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 331
________________ 278 नयचक्रम् / [विध्युभयारः लमूष्मा तेजश्चलं वायुः, शुषिरमाकाशं, यच्चैतन्यं स यजमानः, चक्षुः सूर्यो, जिह्वा सोमे मनो वेत्यन्येष्वप्यवयवेषु यथासम्भवं येऽनुपश्यन्ति, ते धीराः शाश्वती शान्तिमाप्नुवन्ति / तेनैवेश्वरेण सायोज्यं निर्वाणं मोक्षमित्यर्थः। नेतरे प्रधानपुरुष-नि[यत्यादि]कारणिन इति"। नयस्वरूपाख्यानार्थमाह- अयं विधिरुभयभाक् / उभयं विधिं नियम च भजत इत्युभयभाक् विधियाख्यातो लोकवदिति पूर्वमिति [सारयति / ] पुनः संक्षेपेण व्याचष्टे- अनयवादप्रवृत्तिः / न किञ्चिदर्थमयम[प]हरति / किं न एतेन ? यदि सामान्यं यदि विशेष इत्यादि तस्य विधेरुत्सर्गाद् विधानात् स विधिविधीयते / कस्मात् ? सर्वसर्वात्मकत्वात् निरपवादः प्रवर्तत एव / प्रवर्तते न क्वचिद् व्याहन्यते / अयं हि नयः 'सर्व सर्वात्मकम्' इतीच्छति / यथा कः (प्राक्)सूचितं सन्निध्यापत्तिव्याख्याने, तदेवात्रापि वक्ष्यते / नियमः सन्निधिप्रयोज्यसतोरप्रवृत्तेः यावेतावनन्तरोक्तौ सन्निधिर्भवत्यापत्तिभवनसहायमीश्वरप्रवाँ वा प्रयोज्यः प्रधानादृष्टाण्वादिर्भावस्तयोर्द्वयोरप्यप्रवृत्तेरसत्त्वम् / किं कारणम् ? तयोरसत् सत्त्वात् तदुभयं ह्यसदेव सदित्युच्यते / स्वतन्त्रस्य कतुज्ञस्यैव भवनात् , तद्विलक्षणस्याभवनापन्नस्याप्रवृत्तस्यासत्त्वात् , खपुष्पवत् / तस्मात् नियमश्चेति विधिविधीयते नियम्यते चेति / ततोऽयं विधिरुभयभागिति शब्दार्थः।। अधुना सादृश्य-सामान्यं च शब्दार्थः / वाक्यार्थस्य वक्ष्यमाणत्वात् पदार्थ इति गम्यते / सदृशसन्निवेशमानैर्मीयत इति समानम् / समानं दृक्त्वं यत्र द्रष्ट्रणां तत् सदृशम् / सदृशं समानं समानभावः सामान्यं जाति-लिङ्ग-प्रत्ययाभिधानेविति / नान्यापोहेन समानवस्त्वतिरिक्ततत्तत्त्वादि वा तदनुपपत्तेरेतत् सामान्य शब्दार्थः / ननु सामान्यमविकल्पात्मकं पुरुष-नियत्यादिसर्वसर्वात्मकत्वादिति पूर्ववादप्रसङ्ग इति चेत्, नेत्युच्यते, 'सर्वसर्वात्मकत्वेऽपि च सृष्ट्यर्थवत्त्वात् जगत्सृष्टिलक्षणोत्सर्गव्यापित्वात् तदर्थवत्त्वादस्य नयस्य नाविकल्प इति संभंत्स्यते प्रकृतशब्दार्थः / अभिहितन्यायेन सत्त्वादि-शब्दादि-तन्वादिविकल्पप्रत्ययस्य सत्यार्थत्वादद्वैतप्रत्ययस्यासत्यार्थत्वादिति पदार्थ उक्तः।। __वाक्यार्थोऽधुना- वाक्यमपि च पृथक् सर्वपदमिति वाक्येऽवधारिते तदर्थावधारणसौकर्यात् / 'आख्यातः शब्दसङ्घातो जातिः सङ्घातवर्तिनी' / (वाक्यपदीये का० 2, का० 1-2) इत्यादिषु वाक्यलक्षणविकल्पेष्वस्य नयस्य मतेन पृथक् सर्व पदं वाक्यम् , वाक्यार्थः पृथक् पृथक् सर्वपदार्थ इति / यथा- 'देवदत्त ! गामभ्याज शुक्लाम्'

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384