________________ 268 जयचक्रम् / [विध्युभयारः भृम्योरप्येतत्पारिणामिकं रसादिवैश्वरूप्यम् , अन्येषां च भूतानामन्यपरिणाम इत्येवं तदप्यन्यस्येत्यवश्यम्भाव्यविभागः। यत्र चाविभागस्तत् प्रधानं वैश्वरूप्यस्थाविभागकारणपूर्वकत्वात् मयूरबह वैचित्र्यस्यैव तदण्डकरसपूर्वकत्वम् / तस्मादस्ति प्रधानमित्येभिः पञ्चभिर्वीतैः समन्वय-परिमाणोपकार-शक्ति-प्रवृत्ति-वैश्वरूप्यगत्याख्यैः सामान्यसंसगैककर्तृ-शक्तिमच्छक्तिविभागसंज्ञं प्रधानं सिद्धम् / अत एवैकत्वमर्थवत्त्वं परार्थत्वसंहत्यकारिणां पारायांच्छयनादिवत् / अतः पुरुषास्तित्वमन्यत्वं तद्बहुत्वं च पुरुषाणाम् / प्रधानस्याद्यन्तपुरुषार्थोपलब्ध्यनन्तरं निवृत्ति[:]वीयुदकगत्या रङ्गनर्तकीवद् वेति / प्रधान-पुरुष-संयोग विभागावित्थमियत्परिज्ञानफलं च शास्त्रम् / तथा संव्यवहारप्रसिद्धरित्यादि, यावदावीतानामिति व्याख्यातं द्रष्टव्यम् / एतेषामेव पञ्चानां वीतानां परिशुद्ध्यर्थाः पञ्चैवावीताः / एवमेभिः पञ्चभिवीतैः प्रधानस्य परिग्रहं कृत्वा पुनरावीतैः करिष्यामः 'परपक्षप्रतिषेधेन स्वपक्षपरिग्रहक्रिया सा [ss]वीतः' इत्यपदिष्टं पुरस्तात् / तस्यास्य प्रतिपक्षाः सर्वैकान्तिनः पुरुषेश्वराणु-प्रवादा विकारपुरुषा वैनाशिकाश्च / तेषां वि(वे)नाशिकप्रतिषेधमग्रे वक्ष्यामः / कस्मात् ? किञ्चिद् वि(वै)नाशिका हीतर इत्यतः प्रभृत्युपक्रम्यानुपलब्धेर्नास्तीति द्वितीयस्य शिरसो[न]भ्युपगतस्यासत उत्पत्त्यभावाद् व्यभिचारप्रसङ्गे गते यावदनागतेऽपि काले न भविष्यतीति / किश्चान्यत् यदि व्यक्तस्यासत उत्पत्तिर्भवत्यार्थिभिस्तृण-पांशु-वालुका मुक्तामणि-रजत-सुवर्णानि क्रियेरन् / कस्मात् ? अभावक्रिया [गुरुकायो] भावक्रिया लम्विति / न त्वेवं क्रियते, तस्मादयुक्तमित्यादि, यावदुक्तोत्तरत्वादसम्यग् विधिः। किं चान्यत्- यदि व्यक्तस्यासत उत्पत्तिर्योन्य]भावादेकत्वप्रसङ्गः / प्रधानाभावात् सामान्यमात्रमिदं व्यक्तं निर्विशेषमित्येतत् प्र]सज्येत / कस्मात् ? सामान्यपूर्वकत्वाद् विशेषाणाम् , सामान्यपूर्वका हि लोके विशेषा दृष्टास्तद्यथाक्षीरपूर्वका दधि-मस्तु-द्रप्स-नवनीत-घृतारिष्टं-किलाट-कूचिकाभावाः, न त्वसति भावः कश्चिदस्ति, यत्पूर्वका व्यक्तविशेषाः स्युस्तस्मात् सामान्यमात्रमिदं व्यक्तं निर्विशेषमित्येतत् / न त्वि(न्वि)दं तादृक्, तस्मान्नेदं व्यक्तमसत उत्पद्यते, न चेदं सत उत्पद्यते; पारिशेष्यात् प्रधानादेवेदं व्यक्तमुत्पद्यत इत्येतद् व्यक्तम् , तस्मादस्ति प्रधानमिति / एषोऽन्वयवीतस्यावीतः। किं चान्यदित्यादि / तदेव योन्यभावादनवस्थाप्रसङ्गः परिमाणस्य संसर्गपूर्वकत्वाविनाभावादित्यर्थः। प्रधानाभावान्निःप(प)रिमाणमि[दं व्यक्तमव्यवस्थितमित्येतत् प्रसज्येत / कस्मात् ? सतां यर्थानां लोके परिमाणं दृष्टं तुलामान-हस्त १°माणफलं प / 2 °दिष्ट 5 / 3 °वोन्वयी त° प /