________________ बीतावीतप्रयोगेन कार्य-कारणविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 269 व्याम-रज्वात्मोपचयैन त्वसति भावः कश्चिदस्ति, यः प्रतिपद्यमानः परिमाणे ऽवतिष्ठेत / तस्मान्निःप(प्पोरिमाणमिदमव्यवस्थितमित्येतत् प्रसज्येत / न त्विदं ताक्, तस्मान्नेदं व्यक्तमसत उत्पद्यते?, [न चेदं सत उत्पद्यते] परिशेषतः प्रधानादेवेदम् / तस्मादस्ति तत् / किं चान्यत्- एकजातिसमन्वयाभावाप्रसङ्गादिति / तदेव स्थाली-घटेत्यादि दृष्टान्तविशेषः सामान्य-विशेषोत्थापनार्थमुच्यते। अत्र परो ब्रूयाद्- 'विशेषमात्रस्य दर्शनादसत उत्पत्तिस्तद्यथा- आकारो गौरवमित्यादि धर्मभेदादिति'। तत्रोत्तरम् - ताद्रूप्येणोपकाराददोष इति / धर्मभेदपरिणत्या लोकवृत्तान्तनयनादित्युपकारभेदप्रदर्शनात् कार्यकारणभाव-वीतस्य वीतत्वलेशं च स्पृशतीति तस्मादेव ग्रन्थादवगन्तव्यम् / यावत् पुरस्ताद् व्याख्यातम् / त(य)था तैर्यग्योन-मानुष-दैवानि परस्परार्थ न कुर्वीरनिति / तत्र यदुक्तं 'भूतानां तत्समूहानां च व्यावृत्तेविशेषमात्रमिदं व्यक्तम् , तस्मादसत उत्पद्यते' इत्येतदयुक्तमिति / पुनरसत्समन्वयाशङ्कां निरस्य प्रपञ्चेन यावत् तस्माद् युक्तमेतद् योन्यभावाद् भेदप्रसङ्ग इति / एषोऽन्वयवीतस्यावीतः [स] प्रसङ्गो [व्याख्यातः / आचार्यणापि तथैव 'व्यवस्था तुल्यजाति-समन्वयादि' इत्युक्तम् / तेनैव क्रमेण आदिग्रहणान्व(त् त्र)यः शेषा अप्यावीताः सूचिताः। तत्र कार्य-कारण[वीतस्या]वीतस्तावत् / किं चान्यत्-कार्य-कारणयोश्च व्यक्तमिदं द्विधा कृत्वा कार्यराशिं कारणराशिं च / किं च 'नासत उत्पत्तिः सम्भवति' इति वाक्यशेषः / क्रम-योगपद्य-प्रवृत्त्यसम्भवात् / परस्परार्थात्मलाभत्वात् कार्य-कारणयोरन्योन्यानुरूपात्मलाभाभावः / अतः क्रमेण प्रवृत्त्यभावश्चक्राक्षवत् / असत्त्वादसद्वादिनः। तथा युगपदप्यभूतविनष्टयोरनपेक्षत्वात् , खरविषाणवत् / क्रियाऽऽदि-मध्यावसानेष्वसत्त्वादेव प्रवृत्त्यसम्भवः / यदारभ्यते तत् क्रियते, निष्ठां च गच्छतीति लोके दृष्टम् / तत् परस्परापेक्षामन्तरेण न सम्भवति / चक्राक्षवदित्युक्तम् / तस्मात् क्रम-योगपद्य-प्रवृत्त्यसम्भवादकार्यकारणत्वप्रसङ्गः / कार्यकारणभूतं चैतद् व्यक्तम् / तस्मान्नेदम[स]त उत्पद्यते, परिशेषतः प्रधानादेवेदमिति कार्यकारणवीतस्यावीतः। किं चान्यत्-निर्बीजमकस्मादुत्पद्यमानं व्यक्तमनेकदेशत्वात् भेदानामसम्बद्धमुत्पद्यते, सम्बन्ध(द्धं) चोत्पद्यते; तस्मान्नेदमसत इति शक्तिवीतस्यावीतः। शेषस्तु प्रश(स)क्तानुप्रश(स)क्तविचारेण / संस्थानमादिसद्धर्ममानं शब्दादीनां विनाश्य-विनाशिनाम् / एवं लिङ्गमादिम[स]द्धर्ममात्रम् / सत्त्वादीनां विनाश्य-विनाशिनाम् , तस्मिन् विकारसंज्ञा / तत्र यदुक्तं 'विकारस्य विनाशित्वात् प्रधानस्य 1 °तः दक्त भी