________________ 270 नयचक्रम् / [विध्युभयारः विनाशित्वम्' इत्येतदयुक्तम् / गुणव्यतिरिक्तगुणप्रवृत्तिकारणाभावादाकस्मिक्याः प्रवृत्तेरभावाच्च इत्यादि प्रत्यभिज्ञानार्थक्रिया-हेतु-कार्य-नियमादिभिश्च हेतुभिरत्यन्तासदुत्पत्तिविनाशप्रतिषेधार्थः सर्वो ग्रन्थो वैश्वरूप्याविभागगतिव(वी)तस्यावीतो द्रष्टव्य इति / एवमेषां प्रधानास्तित्वैक्यादिसाधनाथ वीतानां तत्सद्भावस्थान्यथा व्यक्तासम्भवस्य वा(चा)दर्शनेन त्र्यात्मकयोनिहेतुत्वमवश्यमित्येतदवधारणार्थानां चावीतानामतथार्थत्वमुक्तविधिना प्रतिपादितमेकत्वं पुरुषवदपरिणामित्वं [च सुखादीनाम् / तत एकत्वात् पुरुषवदपरिणाभित्वादतथार्थत्वं वेति / तस्मादतथार्थत्वादनुमानानां सचादेतेऽथा नोपपन्नाः / तद्यथा-- भिन्नगुणत्वं ] वैषम्यात्मकत्वं विपरिणामः / पुनः साम्यापत्तिश्चेति / तदनुपपत्तेजगत्सर्ग-संहारकल्पना निमूला प्रधानाभावात् / तन्निमूलत्वात् पुरुषार्थन हेतुना प्रयुक्ता प्रवृत्तिरित्येतदपि वितथम् , तद्वितथत्वात् तद्विषयः प्रत्ययोऽप्यज्ञानमेव, तदज्ञानत्वात् ज्ञानप्राप्यपुरुषार्थाभावोऽपीति समस्ततत्रार्थविघटनमेवेति किमवशिष्यते ? / वार्षगणे तत्रे शु(सु)भाषिताभिमतस्त्याज्योऽयमनुपपन्नपरोक्षार्थवादः। यद्युपपद्येत परोक्षार्थमपि त गृह्णीयाम / न तूपपन्नः, तस्मात् सर्वसवात्मकत्वपरिग्रह एव न्याय्यः / __ अन्यः पुनरित्यादि / न सर्वासर्वात्मकत्वपरिग्रहो न्याय्यः, अन्यथा भवनद्वैतपरिग्रहाद् विध्युभयनयकान्तोपपत्तेः / तत्र भवति भावद्वैतम् / भवतो भावस्य भाव्य-भवितृत्वाभ्यां भेदाभ्यां भावोपपत्तिः इत्येतत् प्रतिपादयिष्यते / नन्वेवं यथाऽनन्तरदूषितं सन्निध्यापत्तिभवनद्वैतम् / तत्र तावद् 'यः सन्निधिर्न हि, स सन्निधिमात्रवृत्तिरस्ति' / कुतः ? अनापन्नत्वात् / आपत्तिरनाविभूतस्याविर्भावः / तत आह-अनाविर्भूतत्वात् / अनाविर्भवनमप्रवर्तनम् , अप्रवर्तनं चानियमः। अथवाऽऽपत्तेविपरिणामः भावान्तरेणोपलब्धिराविभवो व्यक्तिः [प्रवृत्तिः] सन्ततः परिणामप्रवन्धः नियतस्वरूपत्वमधिगतद्रव्यार्थभा(ताऽ)वस्थितिरेभ्यो(रन्यो) विपर्ययः / अनापन्नत्वादिस्तेभ्यो हेतुभ्योऽनापन्नत्वादिस्वरूपेभ्यो नास्ति, वन्ध्यापुत्रवत् सन्निधिः / आदिग्रहणादप्रवृत्तेरव्यक्तेरनियतेरित्यादिभ्यः / अतः सन्निधेरसत्पर्यायत्वात् सन्निधिभवनाभावः / ननूक्तम्- अस्ति-भवत्यादिषु अस्तिवर्तती सनिधिवाचिनौ, भवति विद्यती सामान्यभवनवाचिनौ, पद्यतिरापत्ति[भव]. नवाची' इति / सत्यमुक्तमयुक्तं तूक्तम् , अस्त्यादीनां सन्निपातषष्ठानां सत्ताऽर्थवाचित्वात् सर्वेऽप्यमी सत्ताऽर्थमेवाविशेषेण ब्रुवते / सा च सत्ता 'पद्यति-वर्त्य(त्त)त्येकार्थव' इत्यत आह- पद्यति वत्तेत्यर्थप्रवृत्तत्वादेव सत्तायाः / स्यान्मतम् , 5 °नोईत भ / 2 नत्वैवं भ / नाप भ। भक्तम भ /