________________ वीतावीतप्रयोगेन प्रधानविचारः] न्यायागमानुसारिण्यलङ्कृतम्। . 271 सद् विशेषद्रव्य-गुण-कर्मवद् वर्तति-पद्यत्योरुपादानं सत्त्वा(त्ता)विशेषत्वेनेति / एतच्चायुक्तम् , यस्मात् 'न हि द्रव्यादि सञ्जेदेत्यादि यावदुपादानम्' इति गतार्थम् / किं त पादानम् ? / उच्यते- अस्त्यादि तुल्यार्थत्वेन कुतो ज्ञायते ? इति चेत् सत्तार्था इत्यविशेषेण वचनात् 'अस्ति-भवति-विद्यति-पद्यति-वर्ततयः सन्निपातषष्ठाः सत्तार्थाः' इत्यविशेषेणोक्तत्वात् सिद्धसेनसूरिणा। __ एवं तावत् सन्निधिभवनं नास्त्येव निरूपणानुपपत्तेः / आपत्तिभवनमपि नास्ति / कथमिति चेत् ? यदपि चापत्तिभवननिरूपणं सांख्यैः क्रियत इति वाक्यशेषः / प्रधानमेव भवति महदादिविकारापत्त्या यस्मात् तेन किल भूयत इति / इतिशब्द[स्य] हेत्वर्थत्वात् / महदादिभावना पद्यत इत्यस्मात् कारणात् प्रधानमेव भवति, तेनैव भूयते सत्त्वादिमयत्वात् विश्वस्येति किलशब्दः क्षेपे / एवं किल तेषां मतमिति / स च क्षेपोऽनुपपद्यमानत्वात् / कथमिति चेत् ? उच्यते- तदपि [न तस्यापि] भाव्यमानत्वाद् भावयितारमन्तरेण भाव्यत्वानुपपत्तेः स्वत एव [न] भवतीत्यर्थः। भाव्यमानत्वं च वक्ष्यमाणोपपत्तिकत्वात् सिद्धम् / तच्चेद् व्यावृ(पृतं द्वितीयेन व्यावृ(पृ)ततरेण विना न प्रवर्तितुमर्हति, अनापन्नत्वाद् , अनापन्नस्य च सन्निधिमात्रस्य(स्या)पादितासत्त्वात् / तस्मादनापन्नस्य च स्वत एवापत्त्यभावात् तदुक्तापत्तिभवनं नोपपद्यत इति / किं कारणमनुपपन्नम् ? इति चेत् , अस्वतन्त्रत्वादन्यतत्रं हि तत् प्रधानाख्यमचेतनत्वात् / को दृष्टान्तः ? शब्दादिवत् , तथा शब्दादयः सत्त्व-रजस्तमोमयत्वा[दा स्वतत्रास्तदात्मकेन प्रधानेन भाव्यन्तेऽन्येन व्यापृता अपि व्यापारयित्रा, तथा प्रधानमपि, तस्मात् ततोऽन्यो भवति मुख्यः। कोऽसौ ? यः कर्ता। कः कर्ता? अत आह-यः स्वतन्त्रः। कस्मात् ? प्रवर्तनवृत्तत्वात् प्रवर्तयतः क्रियाप्रवर्तनम् , तेन प्रवर्तनेन वृत्तत्त्वात्-प्रवर्तयित्त्वेन वृत्तत्वादित्यर्थः / प्रवर्तयद्धि कारणं तद्भावमापद्यते शब्दादि, यथा प्रवर्तयत् सत्त्व-रजस्तमोलक्षणं कारणं शब्दादिभावमापद्यते त्वन्मतेन तथा भवनवृत्तत्वात् तेन प्रवृत्त्य(वर्त्य)मानरूपेण भवनम् , तेन प्रवृत्तत्वात् प्रवर्तयितारमन्तरेणाभवनादवृत्तत्वात् तन्तुपटवत् / यथा तन्तवः पटं प्रवर्तयन्तः पटस्य कारणमित्युच्यन्ते, पटश्च तन्तुकार्यम् , तैः प्रवर्त्यत्वात् / नन्वेते प्रधानशब्दादिदृष्टान्ता अद्वैतवादं समर्थयन्तीति उच्यते- प्रवर्तयितृत्वमात्रसाधर्म्यात् तदभ्युपगम्यं भेदेन निदर्यतेऽन्यथा पुरुषादिवदद्वैताभ्युपगमे विध्युभयकान्तोत्थानाभावाद्, भाव्य-भावकभेदप्रसिद्धेश्च / अभावितस्यासत्त्वाद् वन्ध्यापुत्रवद् , अणुधर्मादयोऽपि भाव्यमाना एव स्युः, इत्येतत्साधर्म्य विरूभ। 2 मपि प। 3 भादपि भ। ४ते भ।