________________ 272 नयचक्रम् / [विध्युभयारः दृष्टान्ताः शब्दादयः। यद्येवं प्रस्तुतं धर्माधर्मावणवो वा कारणमस्त्येवेति सिद्धत्वात् , किमनुमितेन कारणेनेति चेत् ? नेत्युच्यते- धर्माधर्माण्विा)दीनामपि च तन्त्वंश्वादिवदित्यादि, यावत् प्रतिविशिष्टवुद्धिः यथा पटस्तन्तुपूर्वकस्तन्तवोंऽशुपूर्वकाः / अंशवस्तुटिपूर्वकास्तुटीनामपि प्रवर्तने शक्तास्ततः पूर्वे पूर्व यावच्छताणुकस्ततोऽपि पूर्वे पूर्व यावद् व्यणुकः परमाणुरित्यनुमीयते शब्दादितो यावत् प्रधानम् , तथाऽण्वादीनामप्यचेतनानां प्रवर्तको धर्माधर्मों / आदिग्रहणात् काल-स्वभाव-नियत्यादिवाद्यन्तरपरिकल्पिताः। एवं पूर्व-पूर्वशक्त-तारतम्येनेश्वरः सनिहिततद्विधशक्तिः। धर्माधर्माण्वादिः (देः) प्रधानशब्दादेस्तथा तथा विनिवेशने सन्निहिता यस्य शक्तिः सोऽस्ति / का श(सा) तद्विधविनिवेशनशक्तिर्मुख्या तस्येति चेदुच्यते- प्रतिविशिष्टा बुद्धिरतोऽसौ प्रतिविशिष्टबुद्धि[ः प्रतिविशिष्टबुद्धि]भ्योऽपि स्थपति-कुलालादिभ्यः प्रतिकर्तृविनिवेशनप्रवृत्ति-निवृत्ति-विनियोजनेषु ज्ञात्वा (ज्ञत्वात् ) स्वातच्याच तेषां भावानामीष्टे, न ते तस्येशते, नाप्यात्मनो, न च परस्परमज्ञास्वतन्त्रत्वाभ्याम् / स तु प्रतिविशिष्टबुद्धित्वात् स्वतन्त्रः, तस्याभिप्रायेणैव प्रवृत्तिमापद्यन्ते धर्माण्वा(धर्मा)दयः। सोऽपि चाभिप्रायप्रवृत्यापत्तेन सन्निधिमात्रवृत्तिः, अतस्तेषां प्रवर्तयिता प्रवर्तयितृत्वात् कारणशक्तिमत् / स एव तेषां शक्तिमतामपि भाव्यत्वेनाखातव्यात् तस्यैव तत्प्रवृत्ति-निवृत्ति-विनियोगेषु खातच्यात् / जगत्सर्ग-स्थित्यन्तराल-प्रलय-महाप्रलयेषु प्रवर्तनं, प्रागौदासीन्येन स्थितानां धर्मादीनां सृष्टेः प्रवर्तनम् , प्रवृत्तानां पुनरुपसंहारान्निवर्तनम् , विनियोगो दैवमानुष-ति(ते)र्यग्योनात् सरित्-समुद्रादि-तनुकरणाद्यवयव विभागविज्ञा(न्या)सः। विष्णु-मन्वादीनामधिकृतपुरुषाणामपीहत्यपरमेश्वराभिप्रायानुरोधेन प्रवर्तमानाधिकृतराजस्थानीयादिपुरुषा[णा]मिव तस्यैव प्रवर्तयितृत्वात् / इतस्तत्साधर्म्यप्रदर्शनार्थमाह- अधिकृतपत्तृवत् / तद्व्याख्यानाथ सम्भवन-धारणेत्यादि, यावत् प्रयोजनमात्रत्वात् क्रियाया इति / यथा हि राज्ञा नियुक्तः सूपकारः स्थाली-काष्ठ-तन्दुलादीनां सम्भवन-धारण-ज्वालन-विक्लेद[न]व्यापारेषु प्रवृत्ति-विनियोगेषु स्वातव्यात् तत्तदात्मा भवति, य(त)थेश्वर इति / अथवा कर्तृ-कर्म-करणाधिकरण-सम्प्रदानापादानानि प्रतिकारकं पचादीनां क्रियाभेदाद् यथा स्वशक्तिस्वातन्त्रयात् कर्तृणि / यथाऽधिकरणं स्थाली निदर्शनमात्र सम्भवन-धारणे कुर्वती पचतीत्युच्यते, ज्वलनं कुर्वन्ति काष्ठानि पचन्तीत्युच्यन्ते, अधिश्रयणोदकासेच[न]-तन्दुलावपनैधोऽपकर्षणादिक्रियाः कुर्वन् देवदत्तः पचतीत्युच्यते; इत्यादि प्रतिकारकं स्वातत्र्ये सत्यपि उपक्रमप्रवृत्त्य(भृत्य)पवर्गपर्यवसानासु क्रियासु तस्यैव स्वातत्र्यात् सम्भवनादिप्रत्यक्षतायामपि पचनशक्तिमतामप्यधिकरणादीनां देवदत्तस्य प्रवर्तयितृत्वादेवोच्यते-'देवदत्त एव पचति' इति