________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 273 नान्यमी(ई)श्वरत्वात् / तां मुख्यां कर्तृशक्तिं दर्शयति-तेन पच्यते तृतीयया कर्तरि विहितया, स पचतीति वा प्रथमया, तत्र विहिततिप्रत्ययसमानाधिकरणतया / पुनरपि स्फुटीकरणार्थ[माह- तेन पचनं क्रियत इति यावदुक्तं भवति / तेन पच्यते, स पचतीति कुतः ? प्रयोजनमात्रार्थत्वात् / क्रियायाः प्रयोजनं परव्यापारणं, विक्लेदव्यापारणार्थाः सम्भवन-ज्वलनादिक्रियास्तासां च सर्वासां देवदत्तायत्तत्वात् / स पचति, तेन पच्यते इत्युक्तम् / दृष्टान्तान्तरमाह-स्फुटीकरणार्थं] व्यापित्वप्रदर्शनार्थं च साक्षाद् वा भवितवत् / तद्वर्णनं यथा च-सम्भवनेत्यादि, यावद् भवति च / भवति, न केवलं पचत्यादिबाह्यक्रियाविषयमेव प्रयोज्यत्वम् / किं तर्हि ? ब्रीह्यादि-भवनाद्यन्तःक्रियाविषयमपि प्रयोजनम् / तथा भवत् पृथिव्युदकादि बाह्य व्रीहिर्जायते भवतीत्यन्तभवनम् / सम्भवन-धारण-समर्था पृथिवी, रोहणसमर्थमुदकम् , आदिग्रहणाद् वैधनसमर्था वायु-कालादयः, तैः कारितस्य व्रीहिभव[न]स्य प्रत्यक्षतायामपि सत्यां व्रीहिर्जायते भवत्यन्तःसन्निविष्टस्वातव्यात् तस्यैवेश्वरस्य प्रयोजकत्वादुच्यतेभवतीति / भवनमपि भवदेव भवतीति स्वरूपमात्रलाभोऽपि तद्वशादित्यर्थः। अथवा प्रस्तुतप्रधानकारणवादिसिद्धमेवेदं निदर्शनम्-सत्त्व-तमः-प्रकाशेत्यादि, यावद् रैजोभवन[व]द् वा / यथासंख्यं सत्त्वस्य प्रकाशप्रवृत्तिस्तमसो नियमप्रवृत्तिश्चारवेत्युक्तम् / सत्त्वं शब्दात्मना प्रवर्तमानमित्यादि परस्परोपकारवीते प्रकाशादिलक्षणस्य सत्त्व स्य] प्रवृत्तिः / गुरुचरणलक्षणस्य तमसश्च प्रवृत्तियथासंख्यमितरयोः ख्यापयति व्यवस्थापयतीति वचनात् / रजस्तु प्रवृत्तिलक्षणमेव प्रवृत्त्ये(र्त)कमिष्टं विशेषतः सत्यपि प्रवृत्तिसामान्ये करोति प्रवर्तयतीति वचनात् / तथाऽदृष्टा एवादिभूतकालादिप्रवर्तमानसामान्येऽपीश्वर एव प्रवर्तयितृत्वात् कारणमिति दृष्टान्तबाहुल्यमप्रदर्शनं प्रतिसिद्धान्तपरिदृष्टादृष्टादेः प्रवर्तयितृत्वख्यापनार्थ सिद्धान्तं सिद्धान्तं प्रति प्रतिसिद्धान्तम् / तेषु तेषु वैशेषिकादिसिद्धान्तेषु] कल्पितानां परितोऽनुमानैदृष्टानामप्यदृष्टाणुप्रधान-विष्णवा(प्ण्वा)दीनां प्रवर्तयितेश्वर इति दार्शन्तिकोपनयनात् / इति स एव [भवतीत्थमीश्वर एव भवति, परमार्थतः 'सर्वव्यक्तिप्रवृत्त्यात्मकत्वात् सर्वासां व्यक्तीनां प्रवृत्तय आत्माऽस्य सर्वव्यक्तिप्रवृत्त्यात्मकस्तद्वि[शिष्टबुद्धि]शक्त्याध्यासरूपत्वात तासामेव चास्याष्टर्तितोच्यते क्षिति-जल-पवन-हुताशन-यजमानाकाश-सोम-सूर्याख्याऽष्टमूर्तिताऽस्य स्वशक्त्याध्यासरूपत्वात् तासु स एव भवति / सा सा च / १°तीव प्रप। 2 वर्तनप। 3 राजभवनाद्प। 4 सत्वश्च प / 5 वृत्तीनां प / ६°वृत्तिप्रप। 7 त भ / न० च० 35