________________ 274 नयचक्रम् / [विध्युभयारः किं चान्यत्- प्रवृत्तिफलप्रकर्षा[पकर्षा] भावप्रसङ्गादीश्वर एव कारणं, नादृष्टादि, न प्रधानादीति / अत आह- इतरथेत्यादि, यावद् दृष्टौ च तौ / यद्यदृष्टत्वादेः, प्रधानादेर्वा प्रवृत्तयः फलानि वा स्युः, क्रियाणां पूर्वकृतकर्मफलप्रेरितानां तदनुरूपत्वात् फलानां च फलप्रेरितकर्मानुरूपत्वान्मनुष्यनिर्वर्तनीया एव स्वभावमादेवादिक्रियाः कृत्वा मनुष्य एव पुनरपि स्यात् ; मा भूत् सरागसंयमादिदेवगतिनिर्वर्तनीयक्रियासम्बन्धी तदनुरूपवैक्रियशरीरादिलब्ध्युत्कर्पभावः / तथा बह्वारम्भ-परिग्रहादि-निरयायुःसंवर्तनीयकर्मभाक् तदनुरूपदुःखैकरसनारकत्वनिकृष्टफलानुभावी वा मा भूत् परस्परानुरूपशालिबीजाङ्कुरादिहेतुकार्यभावप्रबन्धवत् / विशिष्टविशिष्टबुद्धिस्वतन्त्रकारणप्रेरणाभावात् ,स्वानुरूपकार्य-कारणानुवन्धसामाभ्युपगमाच नादृष्टात् , न प्रधानादेवैषम्यं स्यात् / दृष्टं च (दृष्टान्त वैषम्यमध्ययनविद्यागमानधिगमायुत्कर्षापकर्षयोरन्यदतो विमर्दक्षम कारणमस्तीश्वर कामचारप्रे]रणाद् ऋते, तदभिप्रायस्याप्रतिघातस्य प्रवृत्तिः कामचारस्तेन प्रेरणं भावानां प्रवर्तनं वाचाराणामप्यनिष्टफलसम्बन्धो, दुराचाराणामिष्टफलसम्बन्धः / तस्मात् सर्वमीश्वरप्रवर्तितं प्रवर्तते, नान्यथा। प्रयोगश्च तनुकरण-भुवनसाधनायेत्यादि, यावत् तक्षाधिष्ठितरथदारुगणवदिति / यथाप्रक्रियं शरीराणीन्द्रियाणि भुवनं च साधयितुमधितिष्ठद्भिरदृष्टैः प्रेरिताः परमाणवो वैशेषिकाणांप्रवृत्तानि सत्त्वादीनि, प्रधानेन सांख्यानामन्येषां वा भूतानि काल-स्वभाव-नियत्याद्यधिष्ठितानीत्यभिमतानि प्रवानि सप्रवर्तकानि विशिष्टचेतनाधिष्ठितान्येव प्रवर्तत(न्त)इति [प्रतिज्ञा, सम्भूयैकार्थकारित्वादिति हेतुः / सम्भूयकारित्वं पूर्वपूर्वशक्ततारतम्यकारणानुमानोक्तेः परमाणु-सत्त्वादयः सम्भूय तन्वादित्वेनावस्थिताः परस्परेण सम्भूय गमनाभ्यवहरण-सुख-दुःखानुभव-रूपाद्युपलब्धि-सत्त्वगुणाधारतादिकायं कुर्वन्तो दृश्यन्ते / तत् सिद्धमेषां सम्भूयैकार्थकारित्वम् , तक्षाधिष्ठितरथदारुगणवत् / रथार्थो दारुसङ्घातो रथ-दारुगणः, स तक्ष्णा विशिष्टचेतनेनाधिष्ठितस्तथैतानि तथा चेतनत्वात् तथेति तस्यामेव प्रतिज्ञायाम् , 'अचेतनत्वात्' इत्युपचयहेतुः / स एव रथदारुगणो [दृष्टान्तः वक्ष्यमाणः] वा तुर्यादिवदिति, तनुकरण-भुव[ना]नामचेतनत्वं च सिद्धम् / अथवा स्थित्वा प्रवृत्तेस्तुयोदिवद् यथा तुरि-वेमशलाकानलिका-रज्वञ्चनिका-सूत्रादीनि प्रागप्रवृत्तानि, किञ्चित्कालं स्थित्वा [प्र]वर्तमानानि विशिष्टकुविन्दबुद्ध्यधिष्ठितानि पटनिष्पत्त्यै प्रवर्तन्ते, तनुकरण-भुवनानि तथेति / चेतनानधिष्ठितक्षीर-दधि-मेघादिवदनेकान्त इति चेत् / स्यान्मतम् प्रतिविशिष्टबुद्धिना केनचिदनधिष्ठितेषु क्षीर-दधि-मेघादिषु सम्भूयैकार्थकारित्वाचेतनत्वस्थित्वाप्रवृत्तिधर्माणां दर्शनादनैकान्तिकता संशयहेतुतेति /