Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ नयचक्रम्। 258 [विध्युभयारः स्थानात् तथा लघुगुरुत्वादिलक्षणाः सत्वादय इति अनापन्नतद्रूपेत्यादि यावदुच्यते इति चेदिति शब्दादिरूपमनापन्नस्य सत्त्वस्यासंद्रुतस्य गुणान्तरासङ्गतस्य तदनात्मकस्य, खेनैव रूपेण स्थितस्य प्रागारम्भादारभमाणस्य च यः शब्दादिभावापत्तिकालो यावदनिष्पन्नशब्दादित्वकाल इत्यर्थः / सा ह्यवस्था सत्वं शब्दकार्य प्रख्याय शब्दात्मना व्यवतिष्ठमानम् इति व्यवस्थानशब्देनोच्यते / अन्यथा व्यवस्थितमेव शब्दादिभावेन स्यात् सत्त्वमिति / ___ एतच्च न, पूर्वतुल्यत्वात् / [ यथा प्रा ]गुक्तं लबादिलक्षणसत्त्वाऽप्यैक्यापत्तिव्यम् / तच्च कदाचित् सत्त्वादि[पृथगवस्थानाभावात् तत् संद्रुतिलक्षणमेवोक्तम् , तथेहापि न स कश्चित् कालोऽस्ति, यः प्रवृत्ति-नियमविरहितप्रकाशमात्रावस्थानोपलक्षितः। यदि] प्रधानावस्थायां, यदि व्यक्तावस्थायामित्यत आह-नान्तरेण प्रवृत्त्या टेकत्वगतिव्यवस्थापत्तरित्यादिग्रहणानियमो [न] गृह्यते 'प्रवृत्ति-नियमावन्तरेण न व्यवस्थापत्तिरस्ति' अतो हेतोः नान्तरेण प्रवृत्त्या ह्येकत्वगति व्यवस्थापत्तेः पूर्वेण तुल्यत्वमिति नास्ति सत्त्वादिपृथक्त्वं तवापीति / अतो यथा हेत्वैकान्तिकेत्यादि, यावद् विपर्यसनीयाः / एतस्मादेव सत्वाद्येकत्वाद् यो यो हेतुर्यथा हेतुः 'सुखं मोहाद् गुरोरन्यल्लघुत्वात् इत्यादि त्वत्प्रयुक्तः स स हेतुः विशेषेणास्मत्पक्षं साधयन्नेकान्तिको भवति / तं प्रति यथैकान्तिको भवति, तथोच्यते- सुखं [ मोहाद्] गुरोरनन्यल्लघुत्वात् / यद्यलघुत्वात् / 'यद् यल्लघु तत् तद् गुरोरन्यत् , लोहपिण्डवदकेतूलवत् / यथा प्राग्वर्णितमापेक्षिकमकेतूलगुरुत्वं लोहपिण्डलघुत्वं चेति / तद्वयं सहितं दृष्टान्तः शब्दभावव्यवतिष्टमानमुखादिवद् वेति लौकिकार्थातिक्रमेऽपि त्वन्मतेनैव दृष्टान्तान्तरमिति / तथा दुःखात् प्रवृत्तिशीलादनन्यत् सुखमिति प्रवर्तते / कुतः? अप्रवृत्तिशीलत्वात् , वायुवदाकाशवदिति पृथक्त्वाभावाद् दर्शयति- यथा वायुराकाशं वा सुखात्मकं दुःखात् प्रवृत्तिशीलादनन्यत् तथेहापीति / आदिग्रहणाद् दुःखं सुखादनन्य[दप्रवृत्तिशीलादप्रवृत्तिशीलत्वात् / यद् यदप्रवृत्तिशीलम् , तत् तदप्रवृत्तिशीलादनन्य]द् वाय्वाकाशवत् / तथा सुखं दुःख-मोहाभ्यामप्रकाशकाभ्यामनन्यत् प्रकाशकत्वात् घटप्रदीपादिसुखवत् / तथा दुःखं मोहादनन्यदचलाचलत्वात्, पर्वतादिदुःखवत् / तथा सुखात् प्रकाशिका]दनन्य[द]प्रकाशकत्वात्,प्रदीप-घटादिदुःखवत्।तथा मोहः सुखदुःखाभ्यामगुरुभ्यामनन्यो गुरुत्वात्, पृथिव्यम्यादिगुरुत्ववत् / एवं च सुखत्वाद् , दुःखत्वात् , मोहत्वात् , प्रसादादिकार्यत्वादित्यादयोऽप्यनन्यत्वहेतव एव प्रत्येकमितरगुणस्वरूपानन्यत्वं प्रतिज्ञायते तद्रूपविनिवृत्तिहेतुतो यत् किंचिद् वस्तूदाहृत्य साध्यं सर्वस्य लोष्टादेर्लघुप्रकाशेतरादिपरस्परापृथग्भूतगुणात्मकत्वात् / तद्यथा शरीरेन्द्रियगत आत्मैकदेशस्तदेकदेशभूताभ्यां रजस्तमोभ्यामनन्यः सुखत्वात् ,
Loading... Page Navigation 1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384