Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 310
________________ सत्त्व-रजस्तमसा भेदाभेदविचारः ] न्यायागमानुसारिण्यलङ्कृतम् / 257 स्यान्मतम्- दृष्टविरुद्धमुच्यते गुरुलघुत्वदर्शनात्, अर्कतूलो लघुगुरुर्लोहपिण्ड इति दृष्टत्वादिति / एष न दोषः, यस्मात् व्यवहारतोऽनुयुज्यतीत्युक्तत्वादिति / अत आह- 'कन्याऽनुदरवत् तु व्यवहारोऽयमपेक्षाकृतो बादरस्कन्धविषयः' इति / यथा 'अनुदरा कन्या' इत्यन्यासामुदरवतीनामुदरेण सदृशमुदरमस्या नास्तीत्युदरवत्येवानुदरेत्युच्यते व्यवहारतः, तथा बादरस्कन्धेषु लघुगुरुत्वे / यदपि च लोहपिण्डार्कतूलोदाहरणं, तदपि तत्तुल्यापेक्षिकलघुगुरुत्वे एव साधयतीति / अत आह- एवमेवापेक्षिकेत्यादि, यावदनवस्थितैकत्वे अल्पबाधि(वाचि)नि कनि लोहपिण्डकः पलमात्रप्रमाणोऽर्कतूलभाराल्लघीयान् / 'पलशतिका तुला, विंशतिस्तुला भारः' इति परिभाषितत्वादयस्पिण्डो गुरुरपि लघुरकतूलो लघुरपि गुरुदृष्टः इत्यनवस्थि[तै]कगुरुत्व-लघुत्वतत्त्वे गुरुलघुत्वे आपेक्षिकत्वादस्मान् प्रति न गुरुत्व-लघुत्वे परस्परतोऽ[न]न्ये ततो नायस्पिण्डार्कतूलदृष्टान्तोऽस्ति / इतर आह- अथ ममात्र किमित्यादि, यावदेकत्वापत्तौ भवतीति / यदि युष्मत्सिद्धान्तेनानवस्थिततत्त्वे लघु-गुरुत्वे युज्यते / ततो युक्तमुक्त,म् , अस्मान् प्रत्यसिद्धं लघुरेवेति / ततो ममात्र किम् ? यत् पुनरेतदुक्तम्-'भवन्तं च प्र[त्य]सिद्धम्' इति तदयुक्तमुक्तम् / यदपि च भवसिद्धान्तेनोक्तं, तदपि नोपपद्यते / यस्माद् द्रव्यं चैतदेवं लघुगुरुत्वापेक्षया तदेव दृष्टमिति, न गुरुलघ्वादयो गुणाः, सत्त्व-रजस्तमांसि च / लघ्वादि-प्रकाशाद्यात्मका गुणास्त्विमे तल्लक्षणा मयोच्यन्ते / तेषां गुणानां संद्रावे सङ्गमे तदर्थव्यतिरेकत्वापत्ताविति / न त्वेतस्मिन् गुणैकगमने द्रव्यता भवति, 'गुणसंद्रावो द्रव्यम्' इति लक्षणात् / ते च गुणाः परतोऽन्ये, तस्सान्नासिद्धमित्यभिप्रायः। ___ आचार्य आह- आ अद्यापीत्यादि, यावच्छब्दादि वात्मवदिति / नन्वेतत्प्रतिपादनमेव वर्तते अनन्यत्वं गुणानाम् , तस्मादेकैककारणम् / यदि भवता गुणसंद्रावो द्रव्यमिष्यते, ततस्तवाप्येतद् द्रव्यमेव, न गुणाः / पृथक् संद्रुतानामेव [अव] स्थानात् कुतोऽस्यासंद्रावः ? न प्रधानावस्थायां, नापि व्यक्तावस्थायामसंद्रावो यतोऽस्यासंद्रावादद्रव्यत्वं स्यात् , तस्माद् द्रव्यमेव / न पृथग् लघ्वादयो गुणा इति / तत्रापि च प्रतिज्ञायते- सत्त्वादयो गुणा लघुत्वादिलक्षणास्तत्संद्रुतिलक्षणं द्रव्यमेव, शब्दादिभावेन व्यवस्थानात् / यो यः शब्दादिभावेन व्यवतिष्ठते स सोऽर्थो, लघ्वादिलक्षणगुण(ण)संद्रुति[लक्षणं] द्रव्यमेव शब्दादिस्वात्मवत् , यथा शब्दादिस्वात्मनः सत्त्वादिगुणसंद्रुति लक्षणं] द्रव्यमेव शब्दादिभावेन व्यव वस्तु भ। 2 फल प। 3 भास्मप। 4 परस्परतो प। 5 संभूताप। 6 ऽपशप। न.च०३३

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384