________________ नयचक्रम्। 258 [विध्युभयारः स्थानात् तथा लघुगुरुत्वादिलक्षणाः सत्वादय इति अनापन्नतद्रूपेत्यादि यावदुच्यते इति चेदिति शब्दादिरूपमनापन्नस्य सत्त्वस्यासंद्रुतस्य गुणान्तरासङ्गतस्य तदनात्मकस्य, खेनैव रूपेण स्थितस्य प्रागारम्भादारभमाणस्य च यः शब्दादिभावापत्तिकालो यावदनिष्पन्नशब्दादित्वकाल इत्यर्थः / सा ह्यवस्था सत्वं शब्दकार्य प्रख्याय शब्दात्मना व्यवतिष्ठमानम् इति व्यवस्थानशब्देनोच्यते / अन्यथा व्यवस्थितमेव शब्दादिभावेन स्यात् सत्त्वमिति / ___ एतच्च न, पूर्वतुल्यत्वात् / [ यथा प्रा ]गुक्तं लबादिलक्षणसत्त्वाऽप्यैक्यापत्तिव्यम् / तच्च कदाचित् सत्त्वादि[पृथगवस्थानाभावात् तत् संद्रुतिलक्षणमेवोक्तम् , तथेहापि न स कश्चित् कालोऽस्ति, यः प्रवृत्ति-नियमविरहितप्रकाशमात्रावस्थानोपलक्षितः। यदि] प्रधानावस्थायां, यदि व्यक्तावस्थायामित्यत आह-नान्तरेण प्रवृत्त्या टेकत्वगतिव्यवस्थापत्तरित्यादिग्रहणानियमो [न] गृह्यते 'प्रवृत्ति-नियमावन्तरेण न व्यवस्थापत्तिरस्ति' अतो हेतोः नान्तरेण प्रवृत्त्या ह्येकत्वगति व्यवस्थापत्तेः पूर्वेण तुल्यत्वमिति नास्ति सत्त्वादिपृथक्त्वं तवापीति / अतो यथा हेत्वैकान्तिकेत्यादि, यावद् विपर्यसनीयाः / एतस्मादेव सत्वाद्येकत्वाद् यो यो हेतुर्यथा हेतुः 'सुखं मोहाद् गुरोरन्यल्लघुत्वात् इत्यादि त्वत्प्रयुक्तः स स हेतुः विशेषेणास्मत्पक्षं साधयन्नेकान्तिको भवति / तं प्रति यथैकान्तिको भवति, तथोच्यते- सुखं [ मोहाद्] गुरोरनन्यल्लघुत्वात् / यद्यलघुत्वात् / 'यद् यल्लघु तत् तद् गुरोरन्यत् , लोहपिण्डवदकेतूलवत् / यथा प्राग्वर्णितमापेक्षिकमकेतूलगुरुत्वं लोहपिण्डलघुत्वं चेति / तद्वयं सहितं दृष्टान्तः शब्दभावव्यवतिष्टमानमुखादिवद् वेति लौकिकार्थातिक्रमेऽपि त्वन्मतेनैव दृष्टान्तान्तरमिति / तथा दुःखात् प्रवृत्तिशीलादनन्यत् सुखमिति प्रवर्तते / कुतः? अप्रवृत्तिशीलत्वात् , वायुवदाकाशवदिति पृथक्त्वाभावाद् दर्शयति- यथा वायुराकाशं वा सुखात्मकं दुःखात् प्रवृत्तिशीलादनन्यत् तथेहापीति / आदिग्रहणाद् दुःखं सुखादनन्य[दप्रवृत्तिशीलादप्रवृत्तिशीलत्वात् / यद् यदप्रवृत्तिशीलम् , तत् तदप्रवृत्तिशीलादनन्य]द् वाय्वाकाशवत् / तथा सुखं दुःख-मोहाभ्यामप्रकाशकाभ्यामनन्यत् प्रकाशकत्वात् घटप्रदीपादिसुखवत् / तथा दुःखं मोहादनन्यदचलाचलत्वात्, पर्वतादिदुःखवत् / तथा सुखात् प्रकाशिका]दनन्य[द]प्रकाशकत्वात्,प्रदीप-घटादिदुःखवत्।तथा मोहः सुखदुःखाभ्यामगुरुभ्यामनन्यो गुरुत्वात्, पृथिव्यम्यादिगुरुत्ववत् / एवं च सुखत्वाद् , दुःखत्वात् , मोहत्वात् , प्रसादादिकार्यत्वादित्यादयोऽप्यनन्यत्वहेतव एव प्रत्येकमितरगुणस्वरूपानन्यत्वं प्रतिज्ञायते तद्रूपविनिवृत्तिहेतुतो यत् किंचिद् वस्तूदाहृत्य साध्यं सर्वस्य लोष्टादेर्लघुप्रकाशेतरादिपरस्परापृथग्भूतगुणात्मकत्वात् / तद्यथा शरीरेन्द्रियगत आत्मैकदेशस्तदेकदेशभूताभ्यां रजस्तमोभ्यामनन्यः सुखत्वात् ,