________________ सत्त्व-रजस्तमसा भेदाभेदविचारः ] न्यायागमानुसारिण्यलङ्कृतम् / 259 लोष्टवत् सत्व-रजोभ्यामनन्यो मोहत्वाल्लोष्टवत् / तथा शरीरेन्द्रियगत आत्मैकदेश[ स्तदेकदेश भूताभ्यां रजस्तमोभ्यामनन्यः प्रसादकार्यत्वात् लोष्टवत् / एवं लाघव-प्रसवादिभ्यः / तथा सत्त्व-तमोभ्यामनन्यः शोषत्वात् लोष्टवत् / एवं तापादिभ्यस्तथा सत्त्व-तमोभ्यामनन्यो वरणत्वात् ; एवं सदनादिभ्य इति / एवं तावद् 'यथाहेत्वैकान्तिकत्वं प्रति त एवान्यत्वहेतवोऽनन्यत्वहेतवः' इत्युक्तास्त्वत्प्रयुक्तलक्षणवैलक्षणा(ण्य)विशेषणपक्षविरचनया लघ्वादय एव / __ अथवा मुक्त्वाऽपि चालक्षणभेदहेतूनां सुख मोहाद् गुरोरन्यत् लघुत्वात् महालोहपिण्डार्कतूलवदित्यादिविशेषणमन्तरेण भेदो न शक्यः साधयितुमिति तद्रचनाकुसृतिर्यथा त्वया क्रियते, तथैव मया कृता, किन्तु तां मुक्त्वाऽपि लक्षणभेदवैलक्षण्यविशेषणपक्षविरचनां सदादिभेदलक्षणाभिमतेभ्यः। एवं त्वदुक्तेभ्यो लध्वादिहेतुभ्योऽभेदसिद्धिः शक्याऽऽपादयितुं स्फुटेनैव न्यायाध्वना भ्रान्तिजननेन विनेत्यर्थः / तद्यथा- सुखं मोहादनन्यदपुरुषत्वे चलत्वात् , मोहखात्मवत् / [अपुरुषत्वविशेषितोऽचलादिति हेतुः, पुरुषादचलाद् व्यावर्तते, मा भूदनेकान्तिक इति / दुःखादनन्यत् सुखमिति वर्ततेऽनियमशीलत्वादत्रापि] अपुरुषत्वविशेषणं द्रष्टव्यमधिकाराद् दुःखस्वात्मवदिति / [तथा दुःखं सुखादित्यादि साधनचतुष्टयं सुखादनन्यत्वसाधनद्वयवदपुरुषविशिष्टं दुःख-मोहयोः संयोगनिष्पन्नमिति साधनषद गतार्थ यावद् दुः[ख] स्वात्मवदिति / ] इतर आह- नन्वेवं विरुद्धाव्यभिचारिवदुभयानिश्चयः। यथोक्तम्- 'यथोक्तलक्षणयोर्द्वयोर्विरुद्धयोनित्यानित्यसाधकयोरेकत्वसन्निपतितयोर्हेत्वोरेकस्मिन् धर्मिणि शब्दे पर[स्पर ]निवारितव्यात्योः श्रावण-कृतकत्वयोः शब्दत्व-घटादिदृष्टान्तयोरुभयत्र संशयो भवति' इति / तथेहावाभ्यामुक्तैरन्यत्वानन्यत्वहेतुभिरुभयानिश्चयोऽस्तु, मा भूत् त्वत्प्रोक्तानामेवैकान्तिकत्वमिति / / अत्रोच्यते- नोक्तत्वात् , नैष उभयानिश्चयो युज्यते; तस्मानिर्मिनात्मकतायां त्वित्यादि प्रक्रम्य सुखं दुःखादनन्यदनात्मत्व-सत्त्व-वरणाद्यात्मकत्वाद् दुःखस्वात्मवदित्यादि]भिरैकान्तिकैर्हेतुभिरनन्यत्वस्य लिखितत्वात् , अथवा नोक्तत्वादिति / त्वत्प्रयुक्तानामन्यत्वहेतूनां लघुत्वादीनामुक्तदोषत्वात् / सर्वेऽप्येतेऽप्रसिद्धसाध्यधर्मसमन्वयव्यावृत्तयः, अनुमाननिराकृतपक्षाः, अनवधारणे विपयेयहेतवः। अवधारणे वा(चा)पक्षधमो एवेति तस्सादनेकान्तिकास्तेषां चैकान्तिका अस्मदुक्ता निवर्तका एवेति न तुल्यमावयोः / इतश्चातुल्यमावयोर्भावितत्वाच्च गुणेषु सदा संद्रावस्य / बहुधा भावितं हि सदा सत्त्वादयो गुणाः संद्रु(सद्भूता एव प्रधानमहदहङ्कारादिसर्वावस्थासु न जातु पृथ] ग्भूतसमवस्थाश्चेत(ति)। १'चना प। 2 °चापल पञ्। []कोष्ठकान्तर्गतः पाठः भप्रती।