________________ 260 नयचक्रम् / [विध्युभयारः किं चान्यत्- विरुद्धाव्यभिचारिणि चोक्ता विरुद्धाव्यभिचारिण्यपि न परस्परनिवारितव्याप्तित्वमात्रात् संशय एव / किं तर्हि ? प्रत्यक्षागमबलीयस्त्वात् तत एव निश्चयोऽन्वेष्यत इति युक्तं तयोविरुद्धाव्यभिचारिणोः पक्षधर्मयोयत्प्रत्यक्षीकृतार्थनागमेन बलीयान् प्रत्यक्षसंवादिना प्रत्यक्षेणागमेन च जनितबलाद् वा प्रत्यक्षेणैवागमेनैव वा यथाप्रसिद्धं यो बलीयांस्तत एव निश्चयोऽन्वेष्यत इत्यादिव्याख्याविकल्पेषु प्रत्यक्षागमेन घटादिषु प्रसिद्धसाध्यानित्यत्वान्वयस्य कृतकत्वहेतोः बलीयस्त्वात् ततोऽनित्य इति निश्चयः स्यात् / ननु(तु) श्रावणत्वस्य शब्दत्वे प्रत्यक्षीकर्तु शक्योऽन्वयः शब्दत्वस्याप्रसिद्धत्वादि]ति तद्व(व्य)क्तिमिह साधर्म्यमिति चेदुच्यते- बलीयस्त्वं चास्मद्धेतूनामायहेतुभावनाद् भिन्नात्मकताथास्त्वित्यादि प्रक्रम्यानात्मत्वे सत्यवरणाद्यात्मकत्वादि त्यादि]भिरायहेतुभिः प्रत्यक्षागमवलीयस्त्वमापादितम् , तस्मान्न समं नाविति / इतर आह- मा मंस्थास्त्वदीया हेतवो बलीयांसः / आ(अ)वरणाद्यात्मकत्वादय इति / तदबलत्वं चास्मत्पक्षसाधनत्यायेतो विपरिवर्तयितुं शक्यत्वात् / तद्यथापूर्वहेतवस्तावदवला यतः शक्यन्ते त [इतोऽपि सुतरां पुरुषनिवृत्यर्थमनात्मत्वविशेषणादृतेऽपि विपरिवर्तयितुम् ; तद्यथा- सुखादन्यद् दुःखं प्रसादाद्यनात्मकत्वात् पुरुषवद[समर्थ ]समासेनागमकेनाप्यर्थ गृहीत्वा तदीयोक्त्यनुसारेणोक्तम् / मोहश्च दुःखादन्यस्तत एव तद्वदिति / चशब्दाद् दुःखादन्यौ सुख-मोहौ, सुखा( शोषा)द्य[नात्मकत्वात् पुरुषवत् / तथैव व्याख्या / द्वे साधने समस्योक्ते मोहादन्ये सुख-दुःखे वरणाद्यनात्मकत्वात् पुरुषवदिति तथेवेति / / __ अत्रोच्यते-किं लन्मात्रादेव विपरिवर्तनं त्रैलक्षण्यादिति प्रश्नः, प्रतारणार्थभाववाचिप्रत्ययसहितपञ्चम्यन्तशब्दप्रयोगमात्रात् पक्षधर्मसादृश्यात् त्रैलक्षण्यशून्यान परिवर्तनमित्यभिप्रायः। स्यान्मतम् , न त्वन्मात्रा[त], किं तर्हि वै(त्रै)लक्षण्यं चेदेवं चेन्मन्यसे, तदयुक्तम् , यस्मादादिलक्षणमेव नास्तीह पक्षधर्मत्वमेव तावन्नास्ति, यदाधारेण शेषद्वयम् / कथं पक्षधर्मो नास्तीति चेद्, यस्मान्न ह्यनात्मकं नाम धर्मः कश्चिदस्ति / यदि प्रसादाद्यात्मा न भवतीत्यनात्मकं दुःखमुच्यते / अथात्मैव नास्तीत्यनात्मकमित्युच्यते / द्विधाऽप्यसिद्धं दुःखस्यानात्मकत्वं धम्यसिद्धापत्तेः। कथमिति चेदुच्यते- न दुःखं, [न सुखं, नान्यन्मोहः पुरुषो वा, त्वत्परिकल्पितं दुःखम् , प्रसादाद्यनात्मकत्वात् , खपुष्पवत् स्यादिति धम्येभावादपक्षधर्मत्वम् / इतर आह- नन्वन्यपा(प)दार्थेत्यादि यावत् सद्धर्मवान् / ननु बहुव्रीहेरन्यपदार्थविषयत्वात् तत्सूचनसमासान्तकप्प्रत्ययान्तत्वादनात्मकश्रुते नास्ति [वरणाद्यात्मा] प्रसादाद्यात्मा वा चित्रगुदेवदत्तवत् / स कोऽपि वरणादिभ्यः प्रसादादिभ्यश्चान्यः [सन्नेव ना]सद्धर्मवान् धर्मी पक्षो भवितुमर्हतीति /