________________ सुख-दुःख-मोह-भेदाभेदविचारः] न्यायागमानुसारिण्यलकृतम् / 261 अत्रोच्यते- नैतदुपपद्यते, बहुव्रीहेरप्यन(न्या)र्थविषयत्वानैकान्त्यात् / एवमपान्त्या(पीत्यादि), यावद् धर्म-धर्मिखरूपविरोधादि]ति / स्थूलं शिरोऽस्य स्थूलशिरा राहुः कपो[s]तत्रत्वाद् बहुव्रीहेरेव तत्रत्वात् तस्य चान्यपदार्थत्वाद् व्यभिचारं दर्शयति- 'तद्गुणसं विज्ञानपक्षाश्रयणेन भवति बहुव्रीहौ तद्गुणसंविज्ञानमपि' इति वचनात् / न हि स्थूलशिरोलक्षितस्तद्व्यतिरिक्तो राहुरस्ति, चित्रगवविशिष्टदेवदत्तवत् / तदेव हि स्थूलशिरो राहुः, तद्वदसद् आख्या राहोः शिरोव्यतिरिक्तस्य आख्या व्यपदेशः / स्थूलेन शिरसा व्यपदेशेन चित्राभिरिवाव्यपदेशिनो देवदत्तस्य व्यतिरिक्तस्य, तद्वदव्यतिरिक्तस्यापि राहोस्तयाऽऽख्यया व्यपदेशिवद्भावं कृत्वा व्यवहारो दृष्टोऽसतोऽपि; तथेदमपि स्यात् / तस्य व्यपदेशिवद्भावव्यवहारस्यानभ्युपगमे उक्तोपपत्त्या दृष्टमिममसदाख्यया व्यपदेशिवद्धावव्यवहारमनभ्युपगच्छतस्ते धर्म-धर्मिस्वरूपविरोधौ दोषौ भवतः / धर्मिस्वरूपविरोधस्तावदात्मनोऽनन्यदेव दुःखं पुरुषादित्यर्थः, प्रसादाद्यनात्मकत्वात् / बहुव्रीहिसामर्थ्यात् प्रसादाद्यात्मनोऽन्यत्वादित्यर्थः, आत्मस्वतत्त्ववत्, पुरुषस्वात्मवदित्यर्थः / पुरुषत्वापत्तिश्च सुखस्य धर्मिस्वरूपवैपरीत्यमतो धर्मिस्वरूपविरोधः। किं कारणम् ?, अन्यथा सुखान्यत्व-प्रसादाद्यनात्मकत्वानुपपत्तेः पुरुषत्वापत्तिमन्तरेण सुखस्य दुःखादन्यत्वं वरणाधनात्मकत्वम् ; दुःखस्य वा सुखादन्यत्वं, प्रसादाद्यनात्मकत्वम् , मोहस्य ताभ्यामन्यत्वं प्रसादादि-शोषाधनात्मक त्वं] च नोपपद्यते भावितन्यायत्वात् , सुख-दुःख-मो हाना मैक्यवृत्तित्वस्य / तस्मात् पुरुषस्वरूपापत्तेः प्रसादादि-शोषादि-वरणादि]कार्याणां सुख-दुःख-मोहानां धर्मिस्वरूपविपरीततेति / / - किं चान्यत्- योऽपि धर्मिस्वरूपविरोधः, सोऽपीत्थमुच्यते / तद्यथा-धर्मस्वरूपविरोधोऽपि चैवमेव यथा पुरुषत्वापत्तौ सुखादीनां सुखाद्यात्मपरित्यागेन धर्मिस्वरूपविरोधः। तथा पौंस्नापत्तौ त्रयाणामैक्यापत्तौ चान्यधर्मस्वरूपविरोधश्च / ततश्च प्रकृति-पुरुषयोरप्येकतैव / तस्माद्धेतोः पुरुषत्वापत्तेरनन्यत्वापत्तेश्च प्रकृतिः पुरुषादन्या पुमान् वा प्रकृतेरन्य इति नोपपद्यते / ततोऽस्मदभीष्टमेकमेव कारणमित्येतदर्शनं साधीयः। एवं दुःख-मोहयोरपि यथा सुखं दुःखादन्यदित्येतत् किं त्वन्मात्रात् वै(त्रै)लक्षण्यादित्यतः प्रभृति यावत् प्रकृति-पुरुषयोरप्येकतैवेत्युक्तम् / तथा दुःखं सुख-मोहाभ्यामन्यत् , मोहः सुख-दुःखाभ्यामन्य इत्येतेष्वपि चतुर्यु सुखं मोहादन्यदिति च साधने स एव ग्रन्थो योज्य इति / / __ अथ मा भूदेष दोष इत्यनात्मविशेषणत्वात् त्वद्वत् एतदोषपरिहारार्थ यथा त्वयाऽनात्मकत्वे सवरणाद्यात्मकत्वात् सुखं दुःखादनन्यन्मोहवदित्याद्यभिहि