________________ नयचक्रम् / 262 [विध्युभयारः तम् , तथाऽहमप्यनात्मत्वे सति लघुत्वात् सुखं दुःखादन्यत् , भोहवदित्यादि ब्रवीमि / अतो [धर्म]-धर्मिस्वरूपविरोधौ प्रकृति-पुरुपदोपश्च नेति / अत्रोच्यते- तथा सति यथा किमिति / एवं सति यथा किं सुखादन्यदात्मानं मुक्त्वेति दृष्टान्तः / इदं तदिति निदर्शयितुं न शक्यते / इदं तत् सुखात् पुरुषाच्चान्यद् वस्त्विति समन्वयस्याभावः / [यद्यनात्मत्वे सति लघुत्वादिधर्मवत् सुखात् पुरुषाद् वाऽन्यत् इति / वस्त्वन्तराभावात् तदर्शयन्नाह-न हि सुखादन्य. दस्ति किश्चित् उक्तवदपुरुषम् / पुरुषव्यतिरिक्तं हि सर्व परस्पराविविक्तसुखादित्य(स्व)तत्त्वमेवेत्युक्तं तस्मादन्यत् सुखमेव सर्वमिति समन्वयाभावः / अत एव चान्यत्वेन पक्षीकृते सुखादौ पुरुषव्यतिरिक्तसपक्षाभावात् सुखादेरपि सुखादन्यस्य विपक्षत्वात् विपक्षाद्धेतोावृत्यर्थं यदुच्यते- 'यच्च सुखाद[न]न्यत् तदनात्मत्वेन प्रसादाधनात्मकम् , न लघ्वाधनात्मकत्वं च' इति निदर्शयितुं न शक्यते / न च मोहादि सुखादन्यन्न भवतीत्यशक्यं दर्शयितुमिति विपक्षाव्यावृत्तिरप्यतो विपक्ष एव सत्त्वाद् विरुद्धाश्च [ते] हेतव इत्यभिप्रायः। __ अथ त्वित्यादि यावत् सुखमिति / अथ मतं तव यद् विभक्त स्वत(स)त्त्वं दुःखमोहाभ्यां तत् सुखं सुखादन्यन्न भवति / तत् प्रसादाधनात्मकमपि न भवतीति विविक्तस्वरूपस्य सुखस्य दुःखादन्यत्वात् , प्रसादाद्यात्मकत्वाच तदेव शक्यते वैधयेण निदर्शयितुमत एव च तमः सुखादन्यद् विविक्त[स्व] रूपमप्रसादात्मकपुरुषं चेति साधर्म्यदृष्टान्तश्च स्यादिति / एवमितरसाधनेष्वप्युभयदोषपरिहार इति / अत्रोच्यते- तथा सतीत्यादि, यावत् को वादार्थ उभयोरपीति / एवं सति तेन प्रकारेण नियमोऽयं यत् सुखादन्यन्न भवति, तत् प्रसादाद्यनात्मकमपि न भवत्येव' इति / एतेन प्रकारेण नियमवत् सुखमेवानन्यत् प्रसादाद्यात्मकं भवति चेति / तथा तस्य वस्तुनः प्रवर्तनात् , तथाव्यक्तेश्च नियम-प्रवृत्ति-प्रकाशात्मकं सुखमेवेति त्वदभ्युपगमेनैवैक्यं मो[हा]दीनामापन्नमस्मिन् साधने एतदभ्युपगमवच्च शेषसाधनेष्वपि दुःखादन्यत् सुखं मोहश्वेत्येवमादिषु 'यद् यदनात्म[क] त्वे दुःखादन्यन्न भवति, तच्छोषादि-वरणाद्यनात्मकमपि न भवतीत्येवं नियमाद् व्यक्तेः प्रवृत्तेश्चैक्यं मोहादीनामभ्युपगतं त्वयैवेतरेतरैकत्वाभ्युपगमः / 'इतिशब्दो हेत्वर्थे' इत्यतः को वादार्थः वादप्रयोजनम् उभयोरावयोः ? त्वयैवैक्याभ्युपगमान्न वादार्थस्तव ममापि, प्रतिपन्नार्थप्रतिपादनवैफल्यादिति / एवं तावदवरणाद्यात्मकत्वादिहेतवः प्रथमोक्तानन्यत्वपक्षस्यैव साधकाः, अनात्मत्वविशेषणा अपि नान्यत्वपक्षस्येति प्रतिपादिताः / तत्रैवानन्यत्वपक्ष [एवं त्वपक्ष] एव त्ववरणाद्यात्मकत्वादिवद्धि दोषाः, लघ्वादिहेतवोऽपि नान्यत्वपक्षे तत्र