________________ सुख-दुःख-मोह-भेदाभेदविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 263 सदोषा एवेत्यभिप्रायः। ननु लघ्वादयोऽनन्यत्वहेतव उक्ता एवेत्यभिप्रायः / ननु लघ्वादयोऽनन्यत्वहेतव उक्ता एव, किं पुनरनुशयेन ? इति / अत्रोच्यते-सुखा दावपि च न सत्त्वादिष्वेव / तत्रापि च [विपरिहारपक्षीकृतेऽपि च न यथा त्वया सुखं मोहाद् गुरोरन्यदिति परिहारपक्षीकृता चेव परधर्मेणापि 'दुःखं सुखादनन्यत् , लघुत्वात्' इत्येतेनापि न केवलमनात्मत्वे चलत्वादेवेतीत्थं विशिष्टेन प्रतिपादनविधिनाऽनन्यत्वहेतव इति / अपिशब्दात् स्वधर्मेण 'सुखं, दुःखादनन्यत् , लघुत्वात्' इ[त्यादि]भिः सुकरप्रतिपादनमेवेत्यर्थः परधर्मेण तावत् सुखं दुःखादनन्यत् चलाप्रकाशत्वात् , 'चलम[प्रकाशकम]प्रवृत्तिशीलं दुःखम्' इति वचनात् / दुःखधर्मेण सुखं ततोऽनन्यदिति साध्यते / अविभक्ताशेषगुणात्मकलोष्टवदिति दृष्टान्तः प्रागुपवर्णितः / अविभक्तः सुख-दुःखमोहात्मक-सत्त्व-रजस्तमोगुणात्मको लोष्ट इति द्वि(त्रित्वैक्यानतिक्रमाच त एवाशेषगुणास्तदात्मको लोष्टः / चलाप्रकाशात्मकत्वाद् दुःखादनन्यदिति स एव लोष्टो दृष्टान्तो धावितसुखायेकात्मकत्वात् / एवं तावत् परधर्मेण / एवं च स्थिते वधर्मेणापि लोष्टाधर्थानां सुखायेकात्मकत्वे स्थितेऽनन्यत्वे लघुत्वादिहेतवोऽपि साधका इति तदर्शयति-सुखं दुःखादनन्यत् , लघुत्वात् , लोष्टादि]वदिति वर्तते / एवमप्रवृत्तिशीलत्वात् प्रकाशकत्वादेतानि च चत्वारि साधनानि प्रत्येक त्रीणि तान्येव समुदितान्येकमिति / अत्र द्विकसंयोगेनापि त्रीणि लवप्रवृत्तिशीलत्वात् , लघुप्रकाशात्मकत्वात् , अप्रवृत्तिप्रकाशात्मकत्वादिति / एवं मोहा[द]पीति / 'मोहात् सुखमनन्यत्' इत्यत्रापि त [एव] हेतवस्तावन्तः परधर्मेण सुखदुःखधर्माभ्यां प्रत्येकं द्वे समुदायेनैकमिति त्रीणि चलत्वादप्रकाशकत्वाचला... प्रकाशकत्वादिति, प्रवृत्तिशीलत्वादित्यपि, तत्संयोगेनेतराभ्यामपि सप्त साधनानि / एवं मोहादपीति / मोहादनन्यचलत्वादिभ्यस्तेभ्यः / एवं सुखं दुःखादनन्यद, गुरुत्वादप्रकाशकत्वात् तत्संयोगाचेति मोहधर्मभ्यस्त्रयः(स्त्रिभ्यः)। एवं मोहादपीति तेभ्य एव मोहधर्मेभ्यस्त्रिभ्यो मोहादप्यनन्यत् सुखमिति, द्वाभ्यामप्यनन्यत् सहिताभ्यामिति दुःख-मोहाभ्यामनन्यत् सुखं, लघुत्वादित्यादिभ्यस्तेभ्य एव हेतुभ्यो द्वि-त्रि-चतुरादिसंयोगेन [तत्] प्रत्येकं चानुगन्तव्यमिति / अत [आह-एते] एव सर्व इत्यनया दिशाऽभ्यूह्याः / न केवलमेत एव, लघुत्वादयः स्थूलत्वादयो गुरुत्वादयो वा स्वपरधर्मा हेतवः / किं तर्हि ? स्वपरधर्माः प्रसा[दा]दयश्च प्रसाद-लाघवादयः, शोष-ताप-भेदादयः, वरण-सदनापध्वंसनादयश्च इतरेतरे]त्यादि द्वि-त्रि-चतुरादिसंयोगेन [च भङ्गविकल्पाः सङ्कलनीयाः / एवमेव चैत एव दुःख-मोहयोरपीति' सुखात् परस्परतश्चानन्यत्वं योज्यम् / प्रतिज्ञानां च