________________ 264 नयचक्रम् / [विध्युभयारः प्रत्येकं द्वि-त्रिसंयोगेन] चेति सुखस्य दुःखात् मोहाद् द्वाभ्यां चानन्यतया तिस्रः। एवं दुःखस्य तिस्रः, मोहस्य तिस्रः, त्रयाणां परस्परतोऽनन्यतयैकैवेति दश प्रतिज्ञाः। एतासु सुखधर्मा लघ्वादयः, दुःखधर्माश्चलादयः, मोहधर्मों गुर्वप्रकाशौ / प्रत्येक द्विकादिसंयोगेन च सप्तत्यधिकं शतं साधनानाम् / लाघव-गौरवे त्वपनीय प्रसादादि-शोपादि-वरणादीनां च हेत्वग्रं पञ्चषष्टिसहस्राणि पञ्चशतानि च षत्रिंशानि / किञ्चान्यत्- न केवलम् एत एव हेतवोऽन्येऽप्यचेतनत्वेत्यादिसमासदण्डकमध्ये यावच्छरीराद्यापत्तित्वादिप्रकृतिधर्मः सामान्यभूतैरविशेपितैश्चापुरुषत्वे सति सत्त्वात् , प्रमेयत्वात् , सर्वगतत्वादकृतकत्वादित्यादि वा यावत् किञ्चिदिहास्ति सर्वं तद[न]न्यत्वे विलक्षणतां प्रतिपद्यते धर्मजातमित्यतः कुतः सङ्कलना? न शक्यमेव सङ्कलयितुं प्रत्येक-द्वि-त्रि-चतुरादिसंयोगधर्मानन्त्यादिति स्वपक्षसाधनहेतुसौलभ्यं दर्शयति / भावितत्रैगुण्यैकात्मक-लोष्टादिवस्तुन्यायव्यापित्वादिति / इतर आह- नन्वेवं स्ववचनविरोधादिति सुखं दुःखादनन्यदिति / प्रत्यक्षं सुख-दुःखयोः प्रतिपुरुषं स्वानुभवेन पृथक्त्यसिद्धेः शरीरविकारादिभिरनुमेयत्वाच्च, लोकप्रसिद्धरभ्युपगतत्वाच्च त्वयाऽपि स्ववचनेन च सुखं दुःखमिति पृथगुच्चारणात् स्ववचनाभ्युपगम-लोकप्रसिद्धि-प्रत्यक्षानुमानविरोधदोषा अनन्यत्वप्रतिज्ञाया इति / एतच्चायुक्तम् , तदात्मन एवोपलम्भात्, यस्मादेव पुनः स्वसिद्धान्त एव स्ववचनादि-विरोध उन्नीयते त्वयाऽऽत्मन एव न मम, मामुद्दिश्यात्मनोऽपरिहारेण वचनवक्रतयोच्यते / कुत इति चेत् , उच्यते-प्रधानेत्यादि यावदभ्युपगमात् / प्रधानमेकं सुख-दुःख-मोहात्मकत्वादभिन्नगुणात्मकं साम्येन चावस्थितमिति / कस्यायं स्ववचनविरोधः? तथा 'परस्परमुपकुर्वन्ति सत्त्वादयः, शब्दादिभावेन च व्यवतिष्ठन्ते प्रत्येकं सुखाद्यात्मनेति / सुखादिन्यात्मकत्वं न घटादावेकस्मिन्नेव च' इति त्वयैवाभ्युपगतत्वादैक्यं नान्यत्वोक्तेश्चेति कस्य स्ववचनादिविरोधादिदोषाः ? इति स्वस्थेन चेतसा चिन्त्यताम् / मम तु त्वदोषोद्भावनपरप्रयासत्वाददोषः / एवमस्मदोषोत्कीर्तनद्वारेण खदोषोत्कीर्तनमेवैतद् भवत इति / किं चान्यत्-- हेतुविरुद्धतोक्तावप्येवमेव / यथोक्तम्-'एते हेतवः सप्रपञ्चाः सविशेषण-निर्विशेषणाः प्रतिज्ञादोषोद्भावनद्वारेण विरुद्धा व्यभिचार्युद्भावनद्वारेण चैतेऽस्मत्पक्षस्यानन्यत्वस्य साधका इति / तथा हेतुविरुद्धताऽप्यन्य[त्वपक्षे प्राग्व्याख्यातसमन्वय-व्यावृत्त्यभावविधिनाऽनन्यत्वपक्ष एव दर्शनादिति / ___ तदुपसंहारार्थमाह- इति स्फुटमेवेत्यादि, यावद् वियदादिवदिति / इति शब्दोपसंहारार्थत्वात् / 'यद्यभिलप्यते त्वया प्रधानं नाम गुणसाम्यावस्थानं किञ्चिदस्ति' इति, तन्नाभिलषणीयम् / सुखं सदाव्यक्त-शब्द-स्पर्श-रूप-रस-गन्धं चेत्य