________________ वीतावीतप्रयोगेन प्रधानविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 265 भ्युपगम्यतां स्फुटमेव किमन्यापदेशेन ? परदोषाभिधानेन वा ? तत्त्ववादिनैव भवितव्यमृजुना / तेभ्य एव लघ्वादिभ्यो हेतुभ्यो वियदादिवत् / यथाऽऽकाशवाय्वम्यब्-भुवः पञ्च महाभूतानि व्यक्तशब्दादि-भावादि(नि), तथा सुखमिति लघ्वादिभ्य एव हेतुभ्यः पृथिव्यामिव शब्दादयः पश्चापि शेषेष्वपि चतुर्षु भूतेषु व्यक्ता इत्यभ्युपगम्यताम् / परिणतिविशेषास्तु हिङ्गुगन्धवत् सूपे, लवणरसवच्चाप्सुकस्यचिदेव प्रत्यक्षता शब्दादेन शेषस्याभिभवादिभिरिति परमतेनैवैतदुक्तं; स्वमतेन तु व्यक्तशब्द-रूप-रस-गन्ध-स्पर्शवत्-प्रतिज्ञायां वियद्वर्जान्युदाहरणानीति / 'स्पर्श-रस-गन्ध-वर्णवन्तः पुद्गलाः' (तत्त्वार्थ० 5 / 23) इति सामान्येन, 'अणवः स्कन्धाश्च' (तत्त्वार्थ० 5 / 25) मूर्तत्वात् , [पृथिवी]वत् / वाय्वादयोऽपि शब्द-बन्ध-सौक्ष्म्य-स्थौल्यादयस्तु स्कन्धेष्वेव पुद्गलेष्विति / आकाशस्थावगाहोपकारस्य नैते धर्माः सन्तीति वादपरमेश्वरमतम् , अतो वियद्वर्जान्युदाहरणानीत्युक्तम् / इत्थं सुख-दुःख-मोहानां जात्यन्तरत्वासिद्धिरापादिता; तस्मादेव च वीतावीतानां सुखादित्रैगुण्यकारणपूर्वकत्वानुमानस्यानुमानाभासतेत्यत आह त्रयविषयसमन्वयेत्यादि, यावद् वीतानां व्यवहारसम्प्रसिद्धेत्यादि / यावच्च हेतुत्वाहेतुत्वावधारणार्थानां च वीतानामतथार्थत्वादिति / तेषां [वीता]वीतानां लक्षणम् / तद्यथा- प्रागनुमानं सप्रभेदं व्याख्याय तेषां यदेतत् सामान्यतो दृष्टम् / शेषवदेष हेतुरतीन्द्रियाणां भावानां समधिगमे तस्य प्रयोगोपचारविशेषाद् द्वैविध्यम् / वीत इति सामान्येन, विशेषेण तु स्वरूपाद् वीतसिद्धिः। यदा हेतुः [पर]पक्षमव्यपेक्षश्चेन्नैव रूपेण कार्यसिद्धावपदिश्यते, तदा वीताख्यो भवति, परिशेषा[दा]वीतसिद्धिः / यदा नेदमतोऽन्यथा सम्भवत्यस्ति चेदं, तस्मात् परिशेषतो हेतुरेवायमित्यवधार्य कार्यसिद्धौ व्यपदिश्यते तदा आवीताख्यो भवतीति / प्रयोगलक्षणं त्वस्य परपक्षप्रतिषेधेन पर(स्व)पक्षपरिग्रहक्रिया आवीत इति वीतस्य वा भावः पञ्चप्रदेशः प्रतिज्ञा, हेतुः, दृष्टान्तः, उपसंहारः, निगमनमिति / तत्र साध्यावधारणं प्रतिज्ञा / साधनसमासवचनं हेतुः / तन्निदर्शन [दृष्टान्तः / साध्य-] दृष्टान्तयोरेकक्रियोपसंहारः। प्रतिज्ञाभ्यासो निगमनमिति पुरस्ताद् वीतस्य प्रयोगं न्याय्यं मन्यन्ते, पश्चादावीतस्येति / प्रयोगश्च- अस्ति प्रधानं, भेदानामन्वयदर्शनाद् / आध्यात्मिकानां भेदानां कार्य-कारणात्मकानामेकजातिसमन्वयो दृष्ट इति चन्दनशकलादिदृष्टान्तं वक्ष्यति / सामान्यपूर्वकाणां च भेदानामित्यादि / एकजातिसमन्वयप्रदर्शनार्थ सुखादित्रिगुणैकजातिसमन्वयं कार्यात्मकानां तत्सनिवेशविशेषत्वं पक्षीकृत्य एककार्यत्वादिति हेतुमाह, तथोत्तरत्रोपसंहारात् / पञ्चानां पश्चानामित्यादि वीप्सया व्याप्तिं दर्शयति / तथा क(का)रणात्मकानां नेयं प्रसादादि-शोषादि-वरणादि१ °पादनेन प। न० च० 34