________________ 266 नयचक्रम् / [ विध्युभयारः का[यो]त्मकं दृष्टं गुणत्रयैकजातिसमन्वितम् / तैरारब्धान्याकाशादीनि भूतानि एकोत्तरगुणवृद्ध्या तत्कार्यत्वात् तत्समन्वयाच्च तत्पूर्वकाणि / तथा बाह्यानामपि तिर्यग्योनि(न)-मानुष-दैवानां तत्पूर्वकतेति / तस्मात् त्रैगुण्यसमन्वितत्वाद् भेदास्तु त(त्रि)गुणपूर्वकाश्चन्दनशकलादिवत् / शकलं कपालम् , अत्र भूषणप्रभृतीनामिति व्याप्तिदर्शनार्थ साधनस्य दृष्टान्तवाहुल्यम् / इतश्च- अस्ति प्रधानम् , भेदानां परिमाणात् / आध्यात्मिकानां कार्य-कारणात्मकानां परिमाणं दृष्टम् / सामान्यतस्त्रयः सुख-दुःख-मोहाः कार्यकारण-विशेषतः षोडश भावाः पञ्च भृतान्येकादशेन्द्रियाणि चेत्यादिरूपपरिमाणम् / प्रवृत्तिपरिमाणं द्विधा हिताहित-प्राप्ति-परिहारार्थत्वात् / धर्मादिप्रयोजनत्वाचतुर्धा / धृति-सदाचार-कामसुख-कुतूहल-विनिवृत्तिप्रयोजनं पश्चधा प्राणादिलक्षणा[१] चेति प्रवृत्तिपरिमाणम् / फलपरिमाणं द्विविधं दृष्टमदृष्टं च / अदृष्टं कार्यकारणसामर्थ्य प्रभुशक्तिः साधनसान्निध्यं विभुशक्तिश्चेति द्विधा, एवमशक्तिस्तद्विपरीता। द्विधैव शक्तिर्देव-गन्धर्व-यक्ष-रक्षः-पितृ-पिशाचाः, अशक्तिर्मानुष-पशुमृग-पक्षि-सरीसृप-स्थावराणि / शक्तेः प्रकृतिः शरीरनिमित्तमशक्तेर्जराखण्डोभित्संशो(से)काः / मातृपितृभ्यां जरामण्डं च तत् पट्कोशिकम् , पृथिव्या उद्भिद्यम् / पृथिव्युदकसंसेकजमित्यदृष्टफलपरिमाणम् / दृष्टफलपरिणामं, करणानि प्रवर्तमानानि क्रियान्ते सामान्यतश्चतुर्णा शक्त्यादीनामन्यतमं प्रत्ययं कुर्वन्ति शक्तिरुता / सिद्धिरूहेन साधनं तारक, शब्देन सुतारम् , अध्ययनेन तारयन्तं वा तारादीन्याध्यात्मिकान्यभ्यतीत्य क्रियया तारक-सुतार-तारयन्ता]नामन्यतमेन, प्रमोदं मानुषाद्याधिभौतिकात्ययेन तत्रयान्यतमेनैव प्रमुदितं शीताद्याधिभौतिकात्ययेन / तत्रयान्यतमेनैव मोदमानम् , यदकुशलसंसृष्टव्यपाश्रयात् सन्देहातिक्रमात् तदन्यतमेन रम्यकम् , दोभाग्यातिक्रमेण सदा प्रमुदितमित्यष्टौ सिद्धयः सन्निहितविषयसन्तोषाचिकीर्पितादादूनस्य निवृत्तिकैव (रेवैक) तुष्टिरूपा या नवत्वान्नवविधा तुष्टिः प्रकृत्युपादान-काल-भाग्यकारणपूर्वक पुरुषान्यत्वापरिज्ञानात् माध्यस्थ्यलाभोऽम्भः सलिलौघवृष्ट्याख्याः शरीर-शरीरि-विशेषणोपायाश्चतस्र आध्यात्मिकास्तुष्टयः, बायाश्च विषयनिर्वेदजाः पञ्च विपयेवर्जना-रक्षण[-क्षणक्षण]क्षयासङ्गहिंसादोषदर्शनात् सुतार-सुपार-सुनेत्र-मारीचोत्तमा रूपाख्या इति नव तुष्टयः / एकादशेन्द्रियवधा बधिरान्धाघ्रा पूक-जडोन्माद-[कुणि]-कुष्ठि-क्लीबोदावर्त-पङ्गुलाः], पूर्वोक्तेभ्यः सिद्ध्युपायेभ्यो विपरीतनामानोऽष्टावसिद्धयः, तथा तुष्टिविपरीतनामानोऽनाम्भसिक्यादयो नवातुष्टय इत्यशक्तिरष्टाविंशतिविधा / आश्रयाः 1 तादीत्या भ प 2 लाश्वभ।