Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 304
________________ प्रकाश-प्रवृत्ति-नियमाभेद-विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 251 एवं दृष्टान्तमात्मनैवात्मानं प्रकाशयति करोतीति प्रतिपाद्य दार्टान्तिकं प्रतिपादयति- तथैव सत्त्वेनेत्यादि / यथा कारणे कार्यस्य सत्त्वाद् घटेनैव घटः क्रियत इत्युक्तम् , तथा कारणे कार्यस्य [सत्त्वात् ] सत्त्वेन सुख-प्रकाशादिकारणात्मना तदात्मकं सत्त्वमेव प्रकाश्यते मृद्घटावस्थावत् , तद्दर्शयति-शब्दादिप्रकाशेनापृथग्भूतप्रकाशादितत्त्वम् / किं तत् ? आकाशादि / रूपाद्यपृथग्भूततत्त्वाया मृदो घटे तदपृथग्भूततत्त्व-घटादिप्रकाशवत् / प्रकाशापृथग्भूतेन प्रकाशापृथग्भूततत्त्वं प्रकाश्यत इत्यर्थः / प्रकाशापृथग्भूतावेव प्रवृत्ति-नियमावपीति / तद्दर्शयतिशब्दादिप्रवृत्त्या शब्दादिनियमेन तदप्याकाशादि / यथा प्रकाशापृथग्भावात् प्रकाश्यते, तथा प्रवर्त्यते, नियम्यते चेति / तद् विस्तरेण पर्यायशब्दान्वाख्यानेन भावयति__अपृथग्भूततत्त्वेनेत्यादि / अपृथग्भूततत्त्वत्वादेव तेन सत्त्वेन प्रकाशेन प्रवृत्तिसत्त्वेनेते(ति) प्रकाश-प्रवृत्त्योरैक्यं दर्शयति / एवकारेणावधारणार्थेन / ततः पृथग्भूतार्थाभावं च दर्शयति / अत एव चाह-अनपेक्ष्य(क्ष)या स्वशक्त्या / यदुक्तं भवति प्रकाशेनापृथग्भूतत्वेनासत्वेनेत्यादिपर्याया(य)स्तदुक्तं भवति / प्रवृत्तिसत्त्वेन प्रवृत्त्या स्वश(व्य)क्त्या व्यक्तिराविर्भावो 'जनी प्रादुर्भावे, प्रादुः प्रकाश्ये प्रकाशो जन्माभिव्यक्तिरित्यनान्तरम्' / प्रकाशात्मयोरेव [रजस्तमसोरिति वचनादपृथग्भूतं तत्वं प्रकाशादीनामर्थान्तरं(र)निरपेक्षमिति / यथा प्रकाश एव प्रवृत्तिरिति दर्शितं, तथा प्रवृत्तिरेव प्रकाश इति दर्शयति-आविर्भावेन प्रवृत्त्या प्रवृत्तिसत्त्वेन प्रवृत्तिसत्त्वमेवानपेक्ष्या(क्षा) खव्यक्तिः स्वतः पृथग्भूतप्रकाशनियमानपेक्षा स्वात्माभिव्यक्तिरित्यर्थः। तत्पर्यायकथनमाविर्भावः प्रवृत्तिरिति / तथा नियमसत्त्वेनानपेक्षेणेत्यादिना ग्रन्थेन प्रकाश-प्रवृत्त्यनर्थान्तरभृतो नियम एव सत्त्वं रजश्वेत्यत आह- स्वशक्त्याविर्भावेन स्वनियत्या। का च सा नियमसत्त्वमेवानपेक्षा स्वव्यक्तिः ? पूर्ववत् / वप्रवृत्तिः स्वनियम इत्येकार्थ इति प्रागुपपादितत्वात् / प्रकाश एव प्रवृत्तिर्नियमच, यस्मात् प्रकाशमानः प्रवर्तते नियतश्चार्थ इति / एवं प्रवृत्तिरेवेतरद्वयं, यसात् प्रवर्तमान प्रकाशते [नियतं] च / नियम एवेतरद्वयम् , नियतो ह्यर्थः प्रकाशते प्रवर्तते / तस्मादिहापि तदेव भावितमैक्यमिति / कथं तबैकमेव प्रकाश-प्रवृत्ति-नियमभेदप्रत्ययव्यपदेशभाग् भवतीति ? अत्रोच्यते / अत एषामेकपुरुषप्रवृत्त-श्यामायताक्ष-प्रलम्बबाहुत्ववत्। यथैकस्मिन् पुरुषे प्रवृत्तानि तदव्यतिरिक्तानि श्यामत्वमायताक्षत्वं प्रलम्बबाहुत्वमित्येतानि भिन्नानीव तद्भेदप्रत्ययव्यपदेशभाञ्जि भवन्ति / तथैकवस्त्वि

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384